परमतायोगे हेत्वन्तरपरत्वं सूत्रस्य दर्शयति -
इतश्चेति ।
तदेव स्फोरयति -
यत इति ।
अस्थिरात्कारणात्कार्योत्पत्तिमिच्छतामभावाद्भावोत्पत्तिर्बलादापततीत्येव न किन्तु स्वयमपि वैनाशिकास्तथोपयन्तीत्याह -
दर्शयन्तीति ।
तद्व्याचष्टे -
विनष्टादिति ।
हिशब्दस्तदिच्छायाम् । स्वानिच्छायां किलकारः ।
विनष्टाद्बीजादेरङ्कुरादिजन्मेत्यत्र युक्तिमाह -
कूटस्थादिति ।
कारणं समर्थमसमर्थं वा । यद्यसमर्थं न कदाचिदपि कार्यं कुर्यात् । आद्ये समर्थस्य क्षेपायोगादपर्यायेणाशेषं कार्यं जनयेत् , ततश्चोत्तरक्षणेऽर्थक्रियाभावादसत्त्वम् । नच समर्थमपि सहकारिसंनिधिमपेक्ष्य जनकं, सहकारिणा वस्तुनोऽतिशयजनने तस्य समर्थत्वे सदा तज्जननात् , असमर्थत्वे कदाचिदपि तज्जन्मायोगात् , सहकारिणोऽपि सहकार्यन्तरापेक्षायामनवस्थानात् , वस्तुनश्चातिशयस्य भेदे तस्यैव प्राप्ताप्राप्तविवेकेन जनकतया वस्तनस्तदसिद्धिः । अभेदे तस्यैव जन्यतया क्षणिकस्य जनकत्वापत्तिः । अतिशयानाधाने सहकार्यपेक्षैव न स्यादित्यर्थः ।
कूटस्थस्य कारणत्वदौस्थ्ये फलितमाह -
तस्मादिति ।
परमतनिरासित्वेन सूत्रमवतार्य व्याचष्टे -
तत्रेति ।
तदेव व्यतिरेकद्वारा साधयति -
यदीति ।
बीजाद्यभावेभ्योऽङ्कुराद्युत्पत्तेस्तदभावसिद्धये कारणविशेषोपादानमित्याशङ्क्याह -
न हीति ।
किञ्चाभावकारणवादिना तस्य निर्विशेषत्वं सविशेषत्वं वेष्टम् । आद्यं दूषयति -
निर्विशेषस्येति ।
एतेन ‘नासतोऽदृष्टत्वात्’ इति व्याख्यातम् ।
द्वितीयमनूद्य निरस्यति -
यदीति ।
अभावस्य कारणत्वमुपेत्योक्तं, तदेवायुक्तमित्याह -
नापीति ।
कार्यस्वभावालोचनयापि नाभावस्य कारणतेत्याह -
अभावादिति ।
यद्येनानन्वितं न तत्तस्य कार्यं, यथा हेम्नाऽनन्वितो घटो न हेम्नो विकारः । अनन्विताश्चाभावेन भावास्तस्मान्नाभावविकारा इत्यर्थः ।
किञ्च यद्येनान्वितं तत्तस्य कार्यं, यथा हेम्नान्वितं रुचकादि तत्कार्यम् । अन्विताश्च भावेन भावस्तस्मात्तद्विकारा इत्याह -
सर्वस्येति ।
भावान्वितत्वेऽपि कारणमन्वय्येवेत्यनियमादभावोऽपि कारणं किं न स्यादित्याशङ्क्याह -
न चेति ।
आद्येऽनुमाने व्याप्तिमुक्त्वा द्वितीयेऽपि तामाह -
मृदिति ।
अभावकारणवादिनोक्तमनुभाषते -
यत्त्विति ।
स्थिरस्य कारणत्वं न दृश्यते न युज्यते वा । नाद्यः, अनुभवविरोधात् । न द्वितीयः, स्थिरस्यापि क्रमवत्सहकारिवशात्क्रमकारित्वाविरोधात् । न च सहकारिजन्यातिशयस्यैव कारणत्वं न स्थायिनस्तथात्वं, भेदाभेदादिभिरनिर्वचनीयातिशयवतो वस्तुनो लोकसिद्धकारणत्वानिराकरणात् । न च समर्थत्वादपर्यायमशेषजनकत्वं, तत्तत्कालीनकार्यजन्मसामर्थ्योपगमात् । न च सामर्थ्यासामर्थ्याभ्यां भावाभावभेदः । कार्यभेदप्रतियोगिकशक्त्यशक्तियुक्तक्षणिकभावस्येवाभेदसिद्धेरिति मत्वाह -
तदिति ।
यत्तु विनष्टाद्धीति, तत्राह -
येष्विति ।
अङ्कुरादिषु पार्थिवादिस्वभावानामेव कारणत्वेऽपि बीजाद्यवयवानामिति परमतेनोक्तमुक्तेऽर्थे सूत्रं योजयन्नुपसंहरति -
तस्मादिति ।
स्वाभ्युपगमविरोधादपि नाभावाद्भावोत्पत्तिरित्याह -
अपि चेति ॥ २६ ॥