ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
वैधर्म्याच्च न स्वप्नादिवत् ॥ २९ ॥
यदुक्तं बाह्यार्थापलापिना — स्वप्नादिप्रत्ययवज्जागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः, प्रत्ययत्वाविशेषादिति, तत्प्रतिवक्तव्यम् । अत्रोच्यते — न स्वप्नादिप्रत्ययवज्जाग्रत्प्रत्यया भवितुमर्हन्ति । कस्मात् ? वैधर्म्यात् — वैधर्म्यं हि भवति स्वप्नजागरितयोः । किं पुनर्वैधर्म्यम् ? बाधाबाधाविति ब्रूमः — बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य — मिथ्या मयोपलब्धो महाजनसमागम इति, न ह्यस्ति मम महाजनसमागमः, निद्राग्लानं तु मे मनो बभूव, तेनैषा भ्रान्तिरुद्बभूवेति । एवं मायादिष्वपि भवति यथायथं बाधः । नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्याञ्चिदप्यवस्थायां बाध्यते । अपि च स्मृतिरेषा, यत्स्वप्नदर्शनम् । उपलब्धिस्तु जागरितदर्शनम् । स्मृत्युपलब्ध्योश्च प्रत्यक्षमन्तरं स्वयमनुभूयते अर्थविप्रयोगसम्प्रयोगात्मकम् — इष्टं पुत्रं स्मरामि, नोपलभे, उपलब्धुमिच्छामीति । तत्रैवं सति न शक्यते वक्तुम् — मिथ्या जागरितोपलब्धिः, उपलब्धित्वात् , स्वप्नोपलब्धिवदिति — उभयोरन्तरं स्वयमनुभवता । न च स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम् । अपि च अनुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुमिष्यते । न च यो यस्य स्वतो धर्मो न सम्भवति सोऽन्यस्य साधर्म्यात्तस्य सम्भविष्यति । न ह्यग्निरुष्णोऽनुभूयमान उदकसाधर्म्याच्छीतो भविष्यति । दर्शितं तु वैधर्म्यं स्वप्नजागरितयोः ॥ २९ ॥

तद्व्याख्यातुं व्यावर्त्यमनुवदति -

यदिति ।

तस्य निरासयोग्यत्वमाह -

तदिति ।

कथं तर्हि तन्निराकरणं, तत्र सूत्रमादाय व्याकरोति -

अत्रेति ।

मिथ्यात्वाविशेषादसिद्धं वैधर्म्यमित्याह -

किमिति ।

तत्र साध्यं निरालम्बनत्वं सर्वथैवालम्बनशून्यत्वं वा वास्तवसदालम्बनवैधुर्यं वा व्यावहारिकसदालम्बनहीनत्वं वा । आद्ये दृष्टान्तस्य साध्यविकलता, तत्रापि काल्पनिकालम्बनवत्त्वोपगमात् । द्वितीये सिद्धसाध्यता । तृतीये बाध्यत्वस्य प्रयोजकत्वात्प्रत्ययत्वमप्रयोजकमित्याह -

बाधेति ।

स्वप्नादिधियां व्यावहारिकसदालम्बनहीनत्वे बाध्यत्वं प्रयोजकमित्युक्तं प्रकटयति -

बाध्यते हीति ।

बाधमेवाभिनयति -

मिथ्येति ।

तस्य मिथ्यात्वे कथं प्रथेत्याशङ्क्याह -

न हीति ।

निद्राग्लानमिति करणदोषोक्तिः ।

मायादिषु बाध्यत्वाभावेऽपि व्यावहारिकसदालम्बनशून्यत्वादुपाधेः साध्याव्याप्तिरित्याशङ्क्याह -

एवमिति ।

साधनव्याप्तिं निराह -

नैवमिति ।

परमतेन स्वप्नस्य स्मृतित्वमुपेत्य सूत्रं विधान्तरेण योजयति -

अपि चेति ।

तथापि कथं वैधर्म्यं, तदाह -

स्मृतीति ।

किं तद्वैलक्षण्यं, तदाह -

अर्थेति ।

स्मृतेरर्थविप्रयोगमुदाहरति -

इष्टमिति ।

स्वप्नजागरयोरेवं वैधर्म्येऽपि किमनुमानस्येत्याशङ्क्याह -

तत्रेति ।

उक्तनीत्या तस्मिन्वैधर्म्ये स्थिते सतीति यावत् । अप्रमाकरणजत्वोपाधेर्न निरालम्बनत्वानुमानमित्यर्थः ।

उभयोरन्तरमसिद्धमित्याशङ्क्यानुभवविरोधान्मैवमित्याह -

न चेति ।

इतश्च न निरालम्बनत्वानुमानमित्याह -

अपि चेति ।

स्वतो जागरितधियां निरालम्बनत्वोक्तौ दृष्टिविरोधे तन्निरासार्थमनुमानमुच्यते, तस्मिन्नक्तेऽपि तद्विरोधतादवस्थ्यमिति कालात्ययापदिष्टत्वमाह -

अनुभवेति ।

तद्विरोधेन स्वतो निरालम्बनत्वाभावेऽपि स्वप्नसाधर्म्यात्तद्भविष्यतीत्याशङ्क्याह -

न चेति ।

स्वतोऽसतो धर्मस्यन्यसाधर्म्यादपि सत्त्वाभावे दृष्टान्तमाह -

न हीति ।

वैधर्म्यमुक्त्वा साधर्म्यं वदतो विरोधमाशङ्क्याह -

दर्शितं त्विति ॥ २९ ॥