तद्याकर्तुं चोद्यमनूद्य तस्य निरासयोग्यत्वमाह -
यदपीति ।
तन्निरासमेव सूत्रमवतार्य तदक्षरयोजनया दर्शयति -
अत्रेति ।
तेषामनुपलब्धावपि वासनानां भावे काऽनुपपत्तिः, तत्राह -
अर्थेति ।
निमित्तान्तरादपि तासां योगादलमर्थोपलब्ध्येत्याशङ्क्याह -
अनुपलभ्येति ।
पूर्वपूर्वज्ञानं तत्सन्तानो वा वासना, तेनानादित्वान्न निमित्तापेक्षेत्याशङ्क्याह -
अनादित्वेऽपीति ।
पूर्वस्मद्बीजादिदानीमुत्पद्यमानमङ्कुरं दृष्टमित्यदृष्टेऽपि तज्जातीययोरेव कार्यकारणत्वं युक्तं, प्रकृते त्वर्थोपलब्धिनिरपेक्षवासनोदयादृष्टेरादावेव तस्य कल्प्यत्वादनवस्थानान्नाभीष्टधीवैचित्र्यधीरित्यर्थः ।
स्वप्नादावर्थधियं विनापि वासनाकृतं धीवैचित्र्यं दृष्टमित्युक्तमाशङ्क्यानुवदति -
याविति ।
तत्रापि बाह्यार्थधीनिमित्तत्वमस्ति वासनानामित्युक्तन्यायेन स्थिते नान्वयादिसिद्धिरित्याह -
ताविति ।
प्रत्युक्तिप्रकारं सूचयति -
विनेति ।
इतश्चान्वयाद्यसिद्धिरित्याह -
अपि चेति ।
अपूर्वार्थदृष्टावृतेऽपि वासनां धीवैचित्र्यदृष्टेर्न क्वापि वासनावैचित्र्यकृतं धीवैचित्र्यमतोऽन्वयव्यतिरेकावस्मदनुगुणावित्याह -
विनापीति ।
वासनासत्त्वमुपेत्य तद्वैचित्र्यान्न धीवैचित्र्यमित्युक्तम् । इदानीं त्वन्मते न तत्सत्त्वमेवेत्याह -
अपि चेति ।
तदेव दर्शयितुं वासनास्वरूपमाह -
वासनेति ।
उक्तलक्षणानामपि वासनानामस्मत्पक्षे कानुपपत्तिः, तत्राह -
संस्काराश्चेति ।
तेषां कश्चिदाश्रयोऽपि स्यादित्याशङ्क्य विधान्तरेण सूत्रं योजयति -
न चेति ॥ ३० ॥