सूत्रं व्याचष्टे -
यदपीति ।
विमतं न वासनाधारत्वयोग्यं, क्षणिकत्वात् रूपादिधीवदित्यर्थः ।
क्षणिकत्वेऽपि सन्तत्या स्थिरमालयज्ञानं सर्वव्यवहारास्पदं स्यादित्याशङ्क्याह -
न हीति ।
यद्येकः स्थायी कूटस्थो वा सर्वार्थदर्शी नेष्यते तदा देशाद्यपेक्षया वासनाधानं तदधीने स्मृतिप्रत्यभिज्ञे प्रत्यक्षादिव्यवहारश्च न सम्भवति, सन्तानस्यावस्तुनो वासनाद्याश्रयत्वायोगादित्यर्थः ।
व्यवहारनिर्वाहार्थमालयज्ञानस्य स्थायित्वं चेत् , तत्राह -
स्थिरेति ।
क्षणिकत्वसूत्रस्य व्याख्यानान्तरमाह -
अपि चेति ।
मतद्वयनिरासमुपसंहरति -
एवमिति ।
ज्ञानज्ञेययोः सत्त्वेनानिरूपणात्प्रतीतस्यासत्त्वायोगाद्विरोधादेव सदसत्त्वयोरेकत्रासिद्धेरनिर्वाच्यत्वस्य चैकनिषेधेऽन्यतरविधिध्रौव्यादसम्भवाद्विचारासहत्वमेवास्तु वस्तूनां तत्त्वमित्याशङ्क्याह -
शून्येति ।
नादरः क्रियते सूत्रान्तराणि न रच्यन्त एतान्येवावृत्त्या योज्यन्ते तन्निरासायेति यावत ।
तत्र ज्ञानार्थयोरभावः शून्यत्वं न युक्तं, प्रमाणैस्तयोरुपलब्धेरित्याद्यसूत्रार्थ उक्तः । इदानीमतात्त्विकत्वं द्वैतस्य स्थापयितुमधिष्ठाने वस्तुनि वाच्ये तस्य त्वन्मते न भावो मानतोऽनुपलब्धेस्तन्न शून्यतेति च वदन् ‘न भावोऽनुपलब्धेः’ इति सूत्रं योजयति -
न हीति ।
नच स्वप्नादाविव जागरेऽपि ज्ञानार्थयोरसत्त्वं, वस्तुतस्तदसत्त्वेऽपि व्यवहारतस्तदयोगाद्बाधाबाधाभ्यां वैधर्म्यात्प्रतीतिस्तदसत्त्वस्य दृष्टान्तेऽप्यसंमतेरिति वैधर्म्यसूत्रं नेयम् । ‘क्षणिकत्वाच्च’ इति सूत्रम् ‘उपदेशाच्च’ इत्युपस्कृत्य क्षणिकत्वशून्यत्वोपदेशाद्व्याहतव्यवहारता सुगतस्येति योज्यम् ॥ ३१ ॥