उपसंहारसूत्रं विभजते -
किमिति ।
यथायथेति ।
ग्रन्थतोऽर्थतश्चेत्यर्थः ।
दर्शनमिति वा स्थानमिति वा वाच्ये पश्यनातिष्ठनेत्यलक्षणपदप्रयोगाद्ग्रन्थतस्तावन्नोपपत्तिः । अर्थतश्च नैरात्म्यमुपेत्यालयज्ञानं सर्वव्यवहारास्पदमित्युपगमात्प्रसिद्धैवानुपपत्तिरित्युपेत्य फलितमाह -
अतश्चेति ।
सौगतमतस्यानुपपन्नत्वे हेत्वन्तरं चकारसूचितमाह -
अपि चेति ।
वस्तुनि विकल्पानुपपत्तेर्विरोधाच्च समुच्चयासिद्धिरिति वक्तुमितरेतरविरुद्धमित्युक्तम् । सर्वज्ञस्य भगवतो वासुदेवस्येतिहासपुराणयोर्बुद्धत्वप्रसिद्धेस्तस्यासम्बद्धप्रलापित्वमयुक्तमित्याशङ्क्याह -
प्रद्वेषो वेति ।
वैदिकपथविरुद्धजन्तूपलक्षणार्थं प्रजाग्रहणम् ।
चतुर्धापि सुगतमतस्य वैदिकैरनादरणीयत्वान्न तद्विरोधो नित्यसच्चिदात्मनो ब्रह्मणो जगत्सर्गवादिनः समन्वयस्येति निगमयति -
सर्वथापीति ॥ ३२ ॥