ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
नैकस्मिन्नसम्भवात् ॥ ३३ ॥
अत्राचक्ष्महे — नायमभ्युपगमो युक्त इति । कुतः ? एकस्मिन्नसम्भवात् । न ह्येकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः सम्भवति, शीतोष्णवत् । य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति, ते तथैव वा स्युः, नैव वा तथा स्युः । इतरथा हि, तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् । नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति । नेति ब्रूमः — निरङ्कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात् ‘स्यादस्ति स्यान्नास्ति’ इत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् । एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षेऽस्तिता, स्याच्च पक्षे नास्तितेति । एवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्धारितासु उपदेष्टुं शक्नुयात् ? कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन् ? ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते, नान्यथा । अतश्चानिर्धारितार्थं शास्त्रं प्रणयन् मत्तोन्मत्तवदनुपादेयवचनः स्यात् । तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्या ‘अस्ति वा नास्ति वा’ इति विकल्प्यमाना, स्यात्तावदेकस्मिन्पक्षे, पक्षान्तरे तु न स्यात् — इत्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् । न चैषां पदार्थानामवक्तव्यत्वं सम्भवति । अवक्तव्याश्चेन्नोच्येरन् । उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् । उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च । तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा — एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वा — इति प्रलपन् मत्तोन्मत्तपक्षस्यैव स्यात् , न प्रत्ययितव्यपक्षस्य । स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावः, तथा पक्षे नित्यता पक्षे चानित्यता — इत्यनवधारणायां प्रवृत्त्यनुपपत्तिः । अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः । एवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसम्भवात् , सत्त्वे चैकस्मिन्धर्मेऽसत्त्वस्य धर्मान्तरस्यासम्भवात् , असत्त्वे चैवं सत्त्वस्यासम्भवात् , असङ्गतमिदमार्हतं मतम् । एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः । यत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः सङ्घाताः सम्भवन्तीति कल्पयन्ति, तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते ॥ ३३ ॥

पदार्थानां सत्त्वादिव्यवस्था वास्तवी व्यावहारिकी वा न सम्भवतीति विकल्प्याद्यमङ्गीकृत्य द्वितीये व्यवहारविरोधमभिप्रेत्य सिद्धान्तयति -

अत्रेति ।

व्यवहारतो वस्तुतो वा नानैकान्तिकत्वमुपगन्तुं शक्यमिति प्रतिज्ञापरत्वेन नञ्पदं व्याचष्टे -

नायमिति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

हेतुं विभजते -

न हीति ।

एकत्र विरुद्धधर्मसमावेशासम्भवादनैकान्तिकत्वस्य द्विधाप्ययोगादैकान्तिकत्वस्य च घटादिषु तत्त्वतोऽयोगेऽपि व्यवस्थयैव दृष्टव्यवहारदृष्टेर्व्यावहारिकत्वसिद्धेरयुक्तत्वाद्दिगम्बरराद्धान्तस्य न तेन विरोधः समन्वयस्येत्यर्थः ।

विमतमनैकान्तिकं, वस्तुत्वात् , नरसिंहादिवदित्याशङ्क्य हेतोरनैकान्तिकत्वमाह -

य इति ।

सङ्क्षेपविस्तराभ्यामुक्तसङ्ख्यावत्त्वमेतावत्त्वम् । एवंरूपत्वमुक्तावान्तरभेदभाक्त्वम् ।

ननूक्तं पदार्थेषु वस्तुत्वे सत्यपि तथैवान्यथैव वेति नियमाभावात्तेष्वपि तथैवान्यथा वेत्यनिर्धारितज्ञानोपगमेनानैकान्तिकत्वाविशेषात्कुतो वस्तुत्वमनैकान्तिकं, तत्राह -

इतरथेति ।

स्थाणुर्वा पुरुषो वेति ज्ञानवत्पदार्थेषु सप्तत्वादिज्ञानस्याप्रामाण्यप्रसङ्गादसाधकत्वमुक्तं परिहरन्नाशङ्कते -

नन्विति ।

अनेकात्मकं वस्त्विति ज्ञानस्य निर्धारितत्वे तत्रैव वस्तुत्वस्यानैकान्त्यान्नैवमिति दूषयति -

नेतीति ।

निर्धारणे दर्शितन्यायं निर्धारयितृतत्करणतत्प्रमेयेष्वतिदिशति -

एवमिति ।

निर्धारणं फलं यस्य मानादेस्तत्तथा तस्येति यावत् । चकारेण तन्मेयं सप्तत्वादि गृहीतम् । इतिशब्दोऽनिर्धारणात्मकतयैव स्यादित्यनेन सम्बध्यते ।

अस्मदीये सिद्धान्ते परैरप्यापाद्यमाने का तस्य हानिरित्याशङ्क्याह -

एवमिति ।

उपदेशानुपपत्तिमुक्त्वा प्रवृत्तिरपि मुमुक्षूणामयुक्तेत्याह -

कथं वेति ।

अनिश्चयेऽपि कृष्यादाविव प्रवृत्तिमाशङ्क्यामुष्मिकहेतौ निश्चयादृते न प्रवृत्तिरित्याह -

ऐकान्तिकेति ।

निश्चयं विनापि सर्वज्ञोक्त्या प्रवृत्तिः स्यादित्याशङ्क्यानिर्धारितार्थशास्त्रकर्तुः सर्वज्ञत्वासंमतेर्मैवमित्याह -

अतश्चेति ।

सप्तपदार्थनियमवत्पञ्चास्तिकायनियमोऽपि नास्तीत्याह -

तथेति ।

पञ्चत्वसङ्ख्यानियमाभावे फलितमाह -

इत्यत इति ।

किञ्च सङ्क्षिप्तानां प्रपञ्चितानां च पदार्थानां सर्वैर्वा शब्दैरवाच्यत्वं केनचिद्वेति विकल्प्य घटादेस्तच्छब्दवाच्यत्वेऽपि स्तम्भादिशब्दावाच्यत्वादाद्यमुपेत्य द्वितीयं प्रत्याह -

न चेति ।

काऽत्रानुपपत्तिः, तत्राह -

उच्यन्ते चेति ।

ननु सत्त्वादिरूपेण निर्धारणाभावादुच्यमानानामपि स्यादवक्तव्यतेति न व्याहतिरुक्तेर्निर्धारणपूर्वकत्वेऽपि तथैवेत्यनिर्धारणादवक्तव्यत्वसिद्धिः, तत्राह -

उच्यमानाश्चेति ।

चकारो विप्रतिषिद्धमित्येतदनुकर्षणार्थः ।

सत्त्वाद्यनैकान्तिकत्वावधारणं निराकृत्य तत्फलं सम्यग्दर्शनं तद्विपरीतमसम्यग्दर्शनं चास्ति नास्ति वेति विकल्प्यमाने स्यादस्ति स्यान्नास्तीति प्रलपन्नाप्तो न स्यादित्याह -

तथेति ।

इतश्चासङ्गतमार्हतं मतमित्याह -

स्वर्गेति ।

किञ्चार्हन्नित्युक्तो नित्यमुक्तोऽनादिसिद्धो जीवः कश्चिद्धेत्वनुष्ठानान्मुच्यतेऽन्यस्तदभावाद्बध्यत एवमार्हते मते निश्चितस्वभावानामेषां तथात्वमस्ति न वेति विकल्प्यमाने स्यादस्ति स्यान्नास्तीत्यव्यवस्थायां शास्त्रावधृतस्वभावत्वासम्भवात्तदप्रामाण्यप्रसक्तिरित्याह -

अनादीति ।

सत्त्वासत्त्वयोरनैकान्तिकत्वायोगं सोपस्करमुपसंहरति -

एवमिति ।

एवमेवैकत्वनित्यत्वादिष्वप्युक्तं प्रत्याह -

एतेनेति ।

सत्त्वासत्त्वयोरनैकान्तोपगतिरिरासेनेति यावत् ।

परमाणुभ्यः स्थावरजङ्गमात्मानः सङ्घाता भवन्तीति दिगम्बरास्तत्किमिति न निरस्यते, तत्राह -

यत्त्विति ॥ ३३ ॥