ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥
न च पर्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते । कुतः ? विकारादिदोषप्रसङ्गात् — अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम् । विक्रियावत्त्वे च चर्मादिवदनित्यत्वं प्रसज्येत । ततश्च बन्धमोक्षाभ्युपगमो बाध्येत — कर्माष्टकपरिवेष्टितस्य जीवस्य अलाबूवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवतीति । किञ्चान्यत् — आगच्छतामपगच्छतां च अवयवानामागमापायधर्मवत्त्वादेव अनात्मत्वं शरीरादिवत् । ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् । न च स निरूपयितुं शक्यते — अयमसाविति । किञ्चान्यत् — आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् । न हि भूतेभ्यः प्रादुर्भवेयुः, भूतेषु च निलीयेरन् , अभौतिकत्वाज्जीवस्य । नापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते, प्रमाणाभावात् । किञ्चान्यत् — अनवधृतस्वरूपश्चैवं सति आत्मा स्यात् , आगच्छतामपगच्छतां च अवयवानामनियतपरिमाणत्वात् । अत एवमादिदोषप्रसङ्गात् न पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्येते । अथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकार्त्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायाम् , पुनः पर्यायेण परिमाणानवस्थानेऽपि स्रोतःसन्ताननित्यतान्यायेन आत्मनो नित्यता स्यात् — यथा रक्तपटानां विज्ञानानवस्थानेऽपि तत्सन्ताननित्यता, तद्वद्विसिचामपि — इत्याशङ्क्य, अनेन सूत्रेणोत्तरमुच्यते — सन्तानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः, वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति ॥ ३५ ॥

प्रतिज्ञां विभजते -

न चेति ।

प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

विकारप्रसङ्गं प्रकटयति -

अवयवेति ।

आत्मनः समुद्रादिवद्विक्रियावत्त्वमिष्टमित्याशङ्क्याह -

विक्रियेति ।

अनित्यत्वप्रसङ्गस्येष्टत्वं निराह -

ततश्चेति ।

तदर्थं तदभ्युपगमं दर्शयति -

कर्मेति ।

न चात्मनोऽनित्यत्वे युक्तोऽयमुपगमो बन्धमोक्षान्वयिनोऽभावात् । नहि तौ स्वतन्त्रौ तद्भावे बन्धस्यानादित्वान्मुक्तस्य चानाशित्वान्नानित्यतेत्यर्थः ।

आदिशब्दसूचितमर्थमाह -

किञ्चेति ।

यस्यात्मा सावयवस्तस्यावयवानामात्मत्वम् अवयविनो वा । आद्येऽपि किमागमापायिनां तेषामात्मत्वं तद्धीनस्य वा कस्यचिदवयवस्येति विकल्प्याद्यं प्रत्याह -

आगच्छतामिति ।

कल्पान्तरं परिशिष्टमादत्ते -

ततश्चेति ।

तस्य विशेषतोऽपरिज्ञानादात्मज्ञानाभावादपवर्गासिद्धिरित्याह -

न चेति ।

आद्ये कल्पे दोषान्तरमाह -

किञ्चेति ।

अवयवप्रादुर्भावापादानत्वं तद्विलयाधारत्वं च महाभूतानां वा व्यतिरिक्तस्य वा कस्यचिदिति विमृश्याद्यं प्रत्याह -

न हीति ।

द्वितीयेऽपि प्रतिजीवमसाधारणः सर्वसाधारणो वेति विकल्प्य दूषयति -

नापीति ।

तथा चात्मज्ञानाभावादमुक्तिरेवेत्यर्थः ।

अवयवानां नात्मत्वमवयविनस्तु तथात्वमिति मतं प्रत्याह -

किञ्चेति ।

एवं सति आत्मनोऽवयवित्वे सतीति यावत् ।

तत्र हेतुमाह -

आगच्छतामिति ।

किञ्च प्रत्येकमवयवा न चेतयेरन्नेकाभिप्रायत्वानियमात् । विरुद्धाभिप्रायतया विरुद्धक्रियत्वेन शरीरोन्मथनप्रसङ्गः । न चावयवसमूहस्य चैतन्यं, तस्य भेदाभेदाभ्यां दुर्भणत्वादिति मत्वाऽह -

अत इति ।

प्रकारप्रकारिणौ पञ्चमीभ्यामुक्तौ ।

प्रकारान्तरेण सूत्रमवतारयति -

अथवेति ।

तदेव दर्शयति -

पूर्वेणेति ।

आत्माऽकार्त्स्न्यसूत्रेण प्रसञ्जितां तदनित्यतां सन्ताननित्यतया सुगतवत्परिहर्तव्यामाशङ्क्येदं सूत्रमित्यर्थः । पर्यायेण शरीरव्यक्तिभेेदेन परिमाणस्यात्मनिष्ठस्यैकरूपस्यानवस्थानादनवस्थितपरिमाणस्यात्मनोऽनित्यत्वे शङ्कितेऽपि स्रोतोरूपेण तत्परिमाणस्य च यः सन्तानस्तस्य नित्यतैव न्यायस्तेनेति यावत् ।

व्यक्तीनामनित्यत्वेऽपि सन्ताननित्यत्वे दृष्टान्तः -

यथेति ।

सिग् वस्त्रं विगतं येभ्यस्ते विसिचो विवसनास्तेषामपि पुत्तिकादेहहस्तिदेहादावात्मपरिमाणस्यानवस्थितत्वेऽपि तत्सन्ताननित्यत्वेनात्मनित्यत्वमाशङ्क्य सूत्रमित्याह -

तद्वदिति ।

तदेव विवृणोति -

सन्तानस्येति ।

पर्यायशब्देन क्रमभाविपरिमाणगतः सन्तानो गृह्यते, तन्नित्यत्वादपि नात्मनित्यत्वम् । तस्य हि वस्तुत्वमवस्तुत्वं वा । द्वितीये राद्धान्तविरोधमुक्त्वा प्रथमं प्रत्याह -

वस्तुत्वेऽपीति ।

स हि सन्तानिभ्योऽभिन्नो भिन्नो वा । अभेदे प्रतिदेहं परिमाणभेदानां सन्तानिनामन्यथात्वात्कार्यत्वेनानित्यत्वात्तदभिन्नसन्तानस्यापि तथात्वम् । भेदे तत्सन्तानत्वायोगाद्भिन्नत्वेन घटादिवद्विकारादिप्रसङ्गादात्मनित्यत्वं सन्ताननित्यतया यदुच्यते तस्यानुपपत्तिरित्यर्थः । इतिशब्दः सूत्रव्याख्यासमाप्त्यर्थः ॥ ३५ ॥