सूत्रं व्याकरोति -
अपि चेति ।
यज्जीवपरिमाणं तन्नित्यमिति व्याप्तिभूमिमाह -
अन्त्यस्येति ।
सफलमनुमानमाह -
तद्वदिति ।
विमतं नित्यं, जीवपरिमाणत्वात् , संमतवदित्यनुमानादविशेषप्रसङ्गः सदा जीवस्येत्युक्तं प्रकटयति -
एकेति ।
उपचयापचययोरनेकरूपताव्याप्तेरुक्तानुमानविरोधादित्यर्थः ।
पूर्वमवस्थितशब्दो नित्यपरत्वेनोक्तः, अविशेषश्चैकशरीरपरिमाणता, उभयोः परिमाणयोर्नित्यत्वप्रसङ्गादिति च हेतुः । इदानीं शरीरमन्तरेणैव मोक्षकालीनस्य परिमाणस्यावस्थितत्वादुभयोरपि पूर्वयोरवस्थयोर्देहापेक्षां विना जीवस्यावस्थितपरिमाणत्वसम्भवान्न शरीरपरिमाणत्वं किं त्वविशेषेण तस्याप्यणुत्वं महत्त्वं वा स्यादिति व्याख्यान्तरमाह -
अथवेति ।
विमतो न देहपरिमाणः, आत्मत्वात् , मुक्तवदित्यर्थः ।
आत्मनो देहपरिमाणत्वायोगे फलितमाह -
अतश्चेति ॥ २६ ॥