ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
पत्युरसामञ्जस्यात् ॥ ३७ ॥
अत उत्तरमुच्यतेपत्युरसामञ्जस्यादितिपत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यतेकस्मात् ? असामञ्जस्यात्किं पुनरसामञ्जस्यम् ? हीनमध्यमोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागद्वेषादिदोषप्रसक्तेः अस्मदादिवदनीश्वरत्वं प्रसज्येतप्राणिकर्मापेक्षित्वाददोष इति चेत् , ; कर्मेश्वरयोः प्रवर्त्यप्रवर्तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात्, अनादित्वात् , इति चेत् , ; वर्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरम्परान्यायापत्तेःअपि प्रवर्तनालक्षणा दोषाः’(न्या॰सू॰ १-१-१८) इति न्यायवित्समयः हि कश्चिददोषप्रयुक्तः स्वार्थे परार्थे वा प्रवर्तमानो दृश्यतेस्वार्थप्रयुक्त एव सर्वो जनः परार्थेऽपि प्रवर्तत इत्येवमप्यसामञ्जस्यम् , स्वार्थवत्त्वादीश्वरस्यानीश्वरत्वप्रसङ्गात्पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य, पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम् ॥ ३७ ॥

सत्त्वासत्त्वयोरेकत्रायोगवदधिष्ठातृत्वोपादानत्वयोरपि नैकत्र योगोऽस्तीत्याशङ्कय तात्पर्यमाह -

इदानीमिति ।

अविशेषेणेश्वरकारणवादिनिषेधभ्रमनिवृत्त्यर्थमाह -

केवलेति ।

अविशेषोक्तेरीश्वरकारणत्वमेवात्र निषिध्यते न तस्य निमित्तत्वमात्रमिति शङ्कते -

तदिति ।

स्वोक्तिविरोधान्मैवमित्याह -

प्रकृतिश्चेति । न

केवलमीश्वरस्य कारणत्वमात्रनिषेधे प्रकृतिसूत्रं विरुध्यते किं त्वभिध्यासूत्रमपीति मत्वाह -

अभिध्येति ।

प्रतिष्ठापितत्वात् ।

उक्ततात्पर्यधीरिति शेषः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति -

यदीति ।

सूत्रकृतो विरुद्धार्थवादित्वं परिहर्तुं फलितमाह -

तस्मादिति ।

तन्निराकरणं किमर्थमित्याशङ्क्य ब्रह्मात्मैकत्वं दृढीकर्तुमित्याह -

वेदान्तेति ।

एतेनाधिकरणस्य फलमुक्तम् । अद्वितीयाद्ब्रह्मणो जगत्सर्गं ब्रुवतः समन्वयस्य केवलमधिष्ठातेश्वरो जगतो नोपादानमिति माहेश्वरराद्धान्तेन विरोधोऽस्ति न वेति तत्प्रामाणिकत्वभ्रान्तत्वाभ्यां सन्देहे पूर्वपक्षयति -

सा चेति ।

माहेश्वरमतनिराकरणेन समन्वयविषयब्रह्मात्मैक्यस्यात्र दृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे तन्मतस्य प्रामाणिकत्वात्तद्विरोधे समन्वयासिद्धेर्ब्रह्मात्मैक्यासिद्धिः । सिद्धान्ते तस्य भ्रान्तत्वात्तद्विरोधस्याभासत्वे समन्वयसिद्धेरैक्यसिद्धिः ।

ईश्वरकल्पनाया बहुप्रकारत्वे हेतुं सूचयति -

वेदेति ।

ज्ञानशक्त्यैश्वर्योत्कर्षतारतम्यं क्वचिद्विश्रान्तं, तरतमभावत्वात् , परिणामतारतम्यवदित्याह -

केचिदिति ।

प्रधीयत इति प्रधानस्याविद्यात्वात्प्रधानपुरुषाधिष्ठातेश्वरोऽस्माभिरपि गृह्यते, तत्राह -

इतरेति ।

चत्वारो माहेश्वराः - शैवाः पाशुपताः कारुणिकसिद्धान्तिन कापालिकाश्च । ते सर्वे महेश्वरप्रणीतागमप्रामाण्यात्केवलं निमित्तमीश्वरमिच्छन्तीत्य़ाह -

माहेश्वरास्त्विति ।

कार्यं प्राधानिकं महदादि कारणं महेश्वरः, योगः समाधिः, विधिस्त्रिषवणस्रानादिः, दुःखान्तो मोक्ष इति पञ्च पदार्थाः । ते किमर्थमीश्वरेणोक्ताः, तत्राह -

पश्विति ।

पशवो जीवास्तेषां पाशो बन्धनं तद्विमोक्षो दुःखान्तस्तदर्थमिति यावत् ।

कुम्भकारादेरधिष्ठातुश्चेतनस्य कुम्भादिकार्ये निमित्तत्वमात्रदृष्टेरीश्वरोऽपि जगदधिष्ठाता निमित्तमेव नोपादानमेकस्योभयविरोधादिति मत्वाऽह -

पशुपतिरिति ।

वैशेषिकनैयायिकविवसनसुगतमतानि सूचयति -

तथेति ।

विमतमुपादानाद्यपरोक्षज्ञानवज्जन्यं, कार्यत्वात् , घटवदिति वैशेषिकाः । कर्मफलं सम्प्रदानाद्यभिज्ञप्रदातृकं, कर्मफलत्वात् , सेवाफलवदिति नैयायिकदिगम्बरौ । सौगतास्तु साङ्ख्यानुमानेनैव तटस्थमीश्वरमास्थिताः । एवं माहेश्वरमतस्य प्रामाणिकत्वात्तद्विरोधः समन्वयस्येति प्राप्ते सिद्धान्तमाह -

अत इति ।

पूर्वाधिकरणान्नञ्पदमध्याहृत्य साङ्ख्ययोगाश्रयेश्वरकल्पनादूषणत्वेन सूत्रं योजयति -

पत्युरिति ।

ईश्वरस्य निमित्तत्वमात्रे मानसिद्धे हेत्वसिद्धिरित्याह -

किमिति ।

तस्य तन्मात्रत्वमागमान्मानान्तराद्वा । नाद्यः, तस्योभयकारणत्ववादिताया दर्शितत्वात् । मानान्तरमप्यनुमानमर्थापत्तिर्वा । आद्ये चेतनस्य द्रव्यं प्रति निमित्तत्वमात्रं लोके दृष्टमिति तद्बलात्तन्मात्रमीश्वरं वदतो वैषम्यकारिणो रागादिमत्त्वदृष्टेस्तदपि तस्मिन्कल्प्यलमित्यसामञ्जस्यं स्यादित्याह -

हीनेति ।

आगमादीश्वरसिद्धौ न दृष्टमनुसर्तव्यं, तस्य दृष्टसाधर्म्यादप्रवृत्तेः । अनुमानं तु दृष्टसाधर्म्येण प्रवर्तमानं दृष्टविपर्यये तुषादपि बिभेतीति भावः ।

ईश्वरो हि न स्वेच्छया विषमान्प्राणिनो विदधाति किन्तु तत्कर्मापेक्षया, तेन न तस्य रागादिमत्त्वमिति शङ्कते -

प्राणीति ।

कर्मापेक्षया फलदातृत्वेऽपि कारुणिकत्वादीश्वरः शुभस्यैव फलं ददाति नाशुभस्येति किं न स्यादित्याह -

नेति ।

येन येनेश्वरः शुभेनाशुभेन वा प्रेर्यते तस्य फलं ददातीत्याशङ्‌क्य कर्मणा स प्रवर्त्यते तेन च कर्मेत्यन्योन्याश्रयान्मैवमित्याह -

कर्मेति ।

अतीतेन कर्मणा प्रवर्तितस्येश्वरस्य वर्तमाने कर्मणि फलदानाय प्रवृत्तिरित्यनादित्वात्प्रवर्त्यप्रवर्तकत्वस्य कर्मेश्वरयोर्नान्योन्याश्रयतेत्याह -

नानादित्वादिति ।

स्यादेष परिहारो यद्यतीतं कर्म स्वातन्त्र्येणेश्वरं प्रवर्तयेत् , तत्तु नास्त्यचेतनत्वात् , अतस्तदपि पूर्वकर्मप्रवर्तितेश्वरप्रेरितमेव वर्तमाने कर्मणि तत्प्रेरकमिति कर्मेश्वरयोर्मिथोऽपेक्षायाः सार्वत्रिकत्वादनादित्वस्याप्रामाणिकत्वान्मैवमित्याह -

नेति ।

कर्मापेक्षया वैषम्यहेतुत्वस्य निर्वक्तुमशक्यत्वाल्लोकदृष्ट्या स्यादेव रागादिमत्त्वमीश्वरस्येत्युक्तम् । इदानीं परमतेनापि तस्य रागादिमत्त्वं स्यादित्याह -

अपि चेति ।

प्रवर्तकत्वलिङ्गका रागादिदोषा इति नैयायिकसमयः । ततश्च प्रवर्तकत्वादेवेश्वरस्य तद्वत्त्वमित्यर्थः

प्रवर्तकत्वदोषवत्त्वयोर्व्याप्तिं व्यनक्ति - ।

न हीति ।

कारुण्यादपि प्रवृत्तेर्नैवं व्याप्तिरित्याशङ्क्याह -

स्वार्थेति ।

कारुण्ये सति स्वस्य दुःखं भवति, तेन कारुणिकोऽपि स्वदुःखनिवृत्तये परार्थेऽपि प्रवर्तत इत्यर्थः ।

तथापि किं जातमीश्वरस्येत्याशङ्क्याह -

इत्येवमिति ।

न केवलं दृष्टानुसारादसामञ्जस्यं किं तूक्तेन प्रकारेणोपगमादपीत्यर्थः ।

स्वीकारमात्रस्यादोषत्वात्तस्य दोषपर्यवसायित्वमाह -

स्वार्थेति ।

अर्थित्वादित्यर्थः ।

ईश्वरस्य प्रवर्तकत्वमुपेत्योक्तम् । तदपि पातञ्जलमते नास्तीत्याह -

पुरुषेति ॥ ३७ ॥