प्रकृतासामञ्जस्ये हेत्वन्तरपरं सूत्रमिति सूचयति -
पुनरिति ।
कथमीश्वरस्य प्रधानपुरुषाभ्यां सम्बन्धोऽस्त्युत न । नास्ति चेदधिष्ठात्रधिष्ठेयताऽसिद्धिरित्याह -
न हीति ।
अस्ति चेत्तर्हि स संयोगो वा समवायो वा योग्यता वेति विकल्प्याद्यं दूषयति -
न तावदिति ।
अप्राप्तप्राप्तिरव्याप्यवृत्तिश्च संयोगस्य स्वरूपम् । तत्र प्रधानादिष्वप्राप्तप्राप्तेरभावे हेतुमाह -
प्रधानेति ।
अव्याप्यवृत्तित्वाभावेऽपि हेतुमाह -
निरवयवत्वादिति ।
द्वितीयं निरस्यति -
नापीति ।
तृतीयं प्रत्याह -
नाप्यन्य इति ।
प्रधानकार्यत्वस्य जगतोऽसिद्धत्वात्प्रधानेश्वरयोः सम्बन्धस्य कार्यकल्प्यस्यायोगादित्यर्थः ।
तवापि मायाब्रह्मणोर्विभुत्वान्निरवयवत्वाच्च संयोगासिद्धिः समवायस्यानिष्टत्वात्कार्यकारणत्वस्य चासिद्धत्वात्कार्यगम्ययोग्यतासम्बन्धायोगान्नाधिष्ठात्रधिष्ठेयतेति शङ्कते -
ब्रह्मेति ।
मायाब्रह्मणोरनिर्वाच्यतादात्म्यसम्बन्धान्न साम्यमित्याह -
नेति ।
इतोऽपि ब्रह्मवादिनो न दोषसाम्यमित्याह -
अपि चेति ।
तथापि दृष्टमनुसर्तव्यं, नेत्याह -
नावश्यमिति ।
दृष्टविरुद्धेऽत्यन्तादृष्टे चागमस्य प्रवृत्तेरित्यर्थः ।
अनुमानवादिनि विशेषमाह -
परस्येति ।
ईश्वरवादिनोऽपि तुल्यत्वादागमबलस्यानुमानबलमधिकमिति शङ्कते -
परस्यापीति ।
किमीश्वरस्य सर्वज्ञत्वं तत्कृतागमाद्गम्यते किंवाऽनुमानादिति विकल्प्याद्ये दोषमाह -
नेत्यादिना ।
सर्वज्ञकृतत्वेनागमप्रामाण्ये ततः सर्वज्ञकृतत्वं ज्ञेयं, ततश्च तस्य प्रामाण्यमिति नैकमपि सिध्यति । अस्माकं त्वनादिसिद्धाद्वेदादनपेक्षादलौकिकमपि यूपादिवद्दृष्टं स्यादिति भावः ।
न चानुमानादीश्वरः सर्वज्ञो ज्ञायते, दृष्टबलप्रवृत्तेरनुमानादीश्वरं साधयतः स्वाभ्युपगमवैपरीत्यध्रौव्यस्योक्तत्वादित्युपसंहरति -
तस्मादिति ।
साङ्ख्ययोगोक्तन्यायं चतुर्विधमाहेश्वरेषु वैशेषिकादिषु चातिदिशति -
एवमिति ॥ ३८ ॥