ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥

द्विविधादागमादनुमानाच्च तटस्थेश्वरसिद्धिर्निरस्ता । संप्रत्युद्भूतरूपादिहीनप्रधानादेरस्मदादिभिरधिष्ठेयत्वानुपपत्तिरर्थापत्तिरीश्वरे मानमित्याशङ्क्यास्मदादिवदीश्वरेणापि प्रधानादेरधिष्ठेयत्वानुपपत्तेर्मैवमित्याह -

अधिष्ठानेति ।