द्विविधादागमादनुमानाच्च तटस्थेश्वरसिद्धिर्निरस्ता । संप्रत्युद्भूतरूपादिहीनप्रधानादेरस्मदादिभिरधिष्ठेयत्वानुपपत्तिरर्थापत्तिरीश्वरे मानमित्याशङ्क्यास्मदादिवदीश्वरेणापि प्रधानादेरधिष्ठेयत्वानुपपत्तेर्मैवमित्याह -
अधिष्ठानेति ।