ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥
अन्यथा वा सूत्रद्वयं व्याख्यायते — ‘अधिष्ठानानुपपत्तेश्च’ — इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य; साधिष्ठानो हि लोके सशरीरो राजा राष्ट्रस्येश्वरो दृश्यते, निरधिष्ठानः; अतश्च तद्दृष्टान्तवशेनादृष्टमीश्वरं कल्पयितुमिच्छतः ईश्वरस्यापि किञ्चिच्छरीरं करणायतनं वर्णयितव्यं स्यात्; तद्वर्णयितुं शक्यते, सृष्ट्युत्तरकालभावित्वाच्छरीरस्य, प्राक्सृष्टेस्तदनुपपत्तेः; निरधिष्ठानत्वे चेश्वरस्य प्रवर्तकत्वानुपपत्तिः, एवं लोके दृष्टत्वात् । ‘करणवच्चेन्न भोगादिभ्यः’ — अथ लोकदर्शनानुसारेण ईश्वरस्यापि किञ्चित्करणानामायतनं शरीरं कामेन कल्प्येतएवमपि नोपपद्यते; सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गात् ईश्वरस्याप्यनीश्वरत्वं प्रसज्येत ॥ ४० ॥

सूत्रद्वयस्य व्याख्यान्तरमाह -

अन्यथा वेति ।

ईश्वरस्याधिष्ठानं शरीरं, तदयोगात्प्रवर्तकत्वासिद्धेर्न कार्यानुपपत्त्या तद्धीरित्याह -

अधिष्ठानेति ।

तद्व्याकरोति -

इतश्चेति ।

चेतनस्य प्रवर्तकत्वं सशरीरत्वव्याप्तमन्वयव्यतिरेकाभ्यां वदन्नितःशब्दार्थं स्फुटयति -

साधिष्ठानो हीति ।

विमतं शरीरादिमत्पूर्वकं, कार्यत्वात् , घटवदिति व्याप्तिफलमाह -

अतश्चेति ।

लीलामयं शरीरमीश्वरस्यापि सिद्धमिति सिद्धसाध्यतेत्याशङ्क्याह -

नचेति ।

तर्हि कार्यमपि शरीरादिमत्पूर्वकं मा भूदित्याशङ्क्याह -

निरधिष्ठानत्वे चेति ।

अनीश्वरस्यैव सृष्ट्युत्तरभावि शरीरमीश्वरस्य प्रागपीच्छानिर्मितं भविष्यतीत्याशङ्क्याह -

करणवदिति ।

चोद्यं व्याकरोति -

अथेति ।

न तावदीश्वरस्येच्छानिर्मिते प्राचीने देहे किञ्चिन्मानं, तथापि तदङ्गीकारे देहित्वादीश्वरत्वासिद्धिरित्युत्तरमाह -

एवमपीति ।

देहित्वेऽपि किमित्यनीश्वरत्वं, तत्राह -

सशरीरत्वे हीति ॥ ४० ॥