ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य हि सर्वज्ञस्तैरभ्युपगम्यतेऽनन्तश्च; अनन्तं प्रधानम् , अनन्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यन्तेतत्र सर्वज्ञेनेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा, वा परिच्छिद्येत ? उभयथापि दोषोऽनुषक्त एवकथम् ? पूर्वस्मिंस्तावद्विकल्पे, इयत्तापरिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यंभावि, एवं लोके दृष्टत्वात्; यद्धि लोके इयत्तापरिच्छिन्नं वस्तु घटादि, तदन्तवद्दृष्टम्तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत्स्यात्संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम्स्वरूपपरिमाणमपि तद्गतमीश्वरेण परिच्छिद्येेतेतपुरुषगता महासंख्याततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारान्मुच्यन्ते, तेषां संसारोऽन्तवान् , संसारित्वं तेषामन्तवत्एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां अन्तवत्त्वं स्यात्; प्रधानं सविकारं पुरुषार्थमीश्वरस्य अधिष्ठेयं संसारित्वेनाभिमतम्तच्छून्यतायाम् ईश्वरः किमधितिष्ठेत् ? किंविषये वा सर्वज्ञतेश्वरते स्याताम् ? प्रधानपुरुषेश्वराणाम् चैवमन्तवत्त्वे सति आदिमत्त्वप्रसङ्गः; आद्यन्तवत्त्वे शून्यवादप्रसङ्गःअथ मा भूदेष दोष इत्युत्तरो विकल्पोऽभ्युपगम्येत प्रधानस्य पुरुषाणामात्मनश्च इयत्ता ईश्वरेण परिच्छिद्यत इतितत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोषः प्रसज्येततस्मादप्यसङ्गतस्तार्किकपरिगृहीत ईश्वरकारणवादः ॥ ४१ ॥

सूत्रं व्याकरोति -

इतश्चेति ।

तदेव वक्तुं परमतमनुवदति -

स हीति ।

न तावदीश्वरस्य सर्वज्ञत्वं, नित्ये ज्ञाने स्वातन्त्र्यायोगात् । ज्ञानस्य साक्षाद्विषयसम्बन्धासिद्धेश्च । तथाप्युपेत्य विकल्प्य दोषप्रसक्तिं प्रतिजानीते -

तत्रेति ।

कल्पद्वयेऽपि दोषानुषक्तिं प्रकटयितुं पृच्छति -

कथमिति ।

विमतमन्तवत् , इयत्तापरिच्छिन्नत्वात् , घटवदित्याह -

पूर्वस्मिन्निति ।

लौकिकीं दृष्टिमेव स्पष्टयति -

यद्धीति ।

व्याप्तिफलमनुमानं निगमयति -

तथेति ।

हेतोरसिद्धिमाशङ्क्य सङ्ख्यातः स्वरूपतो वा परिमितिराहित्यमिति विकल्प्याद्यं प्रत्याह -

सङ्ख्येति ।

न द्वितीयः । प्रधानादयः स्वरूपपरिमिताः, वस्तुतः परिच्छिन्नत्वात् , घटवदित्याह -

स्वरूपेति ।

यस्य यादृशं परिमाणमणुमहद्दीर्घं ह्रस्वं वा तदीश्वरेण सर्वज्ञत्वात्परिच्छिद्येत, तथाच ज्ञातपरिमाणत्वात्प्रधानाद्यन्तवदित्यर्थः ।

प्रधानपुरुषेश्वरस्वरूपेण त्रित्वे ज्ञातेऽपि जीवानामानन्त्यात्तद्गतसङ्ख्याज्ञानाभावात्तेषु सङ्ख्यापरिमितिरसिद्धेत्याशङ्क्याह -

पुरुषेति ।

पुरुषैस्तावत्प्रत्येकमेकत्वसङ्ख्या ज्ञाता । या च तेषामन्योन्यापेक्षया बहुत्वसङ्ख्या सापीश्वरेण ज्ञायते । न च सहस्रं लक्षं वेति विशेषाज्ञानादानन्त्यं, माषराशौ व्यभिचारात् । अस्मदादिभिः सङ्ख्यातुमशक्यस्यापि गणितज्ञेन सङ्ख्यातत्वदर्शनात् । सन्दिग्धं विशेषाज्ञानं सर्वपुरुषपरिचयादृते तदज्ञाननिश्चयस्याशक्यत्वात् । तस्मान्न जीवास्तत्त्वतोऽनन्ता वस्तुतः परिच्छिन्नत्वादेकदेशस्थमाषादिवदिति हेत्वसिद्धिमुद्धृत्य फलितमाह -

ततश्चेति ।

कतिपयसंसारिषूक्तन्यायमवशिष्टेष्वतिदिशति –

एवमिति ।

यथा बहूनामपि माषाणामेकैकापचये निखिलापचयो दृश्यते तथा क्रमेण सर्वमुक्तेरिदानीं सर्वसंसारशून्यं जगद् भवेदित्यर्थः ।

किञ्चेश्वरस्यास्मिन् पक्षे सर्वदा सर्वज्ञत्वं सर्वेश्वरत्वं च न सिद्ध्यतीत्याह -

प्रधानं चेति ।

दोषान्तरमाह -

प्रधानेति ।

सिद्धे सर्वेषामाद्यन्तवत्त्वे फलितमाह -

आद्यन्तेति ।

कल्पान्तरमनुवदति -

अथेति ।

वाशब्दसूचितं विकल्पद्वयमुक्त्वाद्यन्तवत्त्वं प्रतिपाद्य द्वितीयमवलम्ब्यासर्वज्ञतेति ।

दूषयति -

तत इति ।

आगमानपेक्षस्यानुमानसिद्धमन्तवत्त्वं दुर्वारम् । अस्माकं त्वागमगम्यत्वादानन्त्यस्य नान्तवत्त्वानुमानम् । एतेन पूर्वपक्षानुमानान्यपि प्रत्युक्तानीति मत्वोपसंहरति -

तस्मादिति ।

शरीरादिराहित्यानुपपत्तिवदानन्त्याद्यभ्युपगमायोगादपीत्यपेरर्थः । अपौरुषेयश्रुतिसिद्धेश्वरस्य न निरासोऽस्तीति तार्किकविशेषणम् ॥ ४१ ॥