सूत्रं व्याकरोति -
इतश्चेति ।
तदेव वक्तुं परमतमनुवदति -
स हीति ।
न तावदीश्वरस्य सर्वज्ञत्वं, नित्ये ज्ञाने स्वातन्त्र्यायोगात् । ज्ञानस्य साक्षाद्विषयसम्बन्धासिद्धेश्च । तथाप्युपेत्य विकल्प्य दोषप्रसक्तिं प्रतिजानीते -
तत्रेति ।
कल्पद्वयेऽपि दोषानुषक्तिं प्रकटयितुं पृच्छति -
कथमिति ।
विमतमन्तवत् , इयत्तापरिच्छिन्नत्वात् , घटवदित्याह -
पूर्वस्मिन्निति ।
लौकिकीं दृष्टिमेव स्पष्टयति -
यद्धीति ।
व्याप्तिफलमनुमानं निगमयति -
तथेति ।
हेतोरसिद्धिमाशङ्क्य सङ्ख्यातः स्वरूपतो वा परिमितिराहित्यमिति विकल्प्याद्यं प्रत्याह -
सङ्ख्येति ।
न द्वितीयः । प्रधानादयः स्वरूपपरिमिताः, वस्तुतः परिच्छिन्नत्वात् , घटवदित्याह -
स्वरूपेति ।
यस्य यादृशं परिमाणमणुमहद्दीर्घं ह्रस्वं वा तदीश्वरेण सर्वज्ञत्वात्परिच्छिद्येत, तथाच ज्ञातपरिमाणत्वात्प्रधानाद्यन्तवदित्यर्थः ।
प्रधानपुरुषेश्वरस्वरूपेण त्रित्वे ज्ञातेऽपि जीवानामानन्त्यात्तद्गतसङ्ख्याज्ञानाभावात्तेषु सङ्ख्यापरिमितिरसिद्धेत्याशङ्क्याह -
पुरुषेति ।
पुरुषैस्तावत्प्रत्येकमेकत्वसङ्ख्या ज्ञाता । या च तेषामन्योन्यापेक्षया बहुत्वसङ्ख्या सापीश्वरेण ज्ञायते । न च सहस्रं लक्षं वेति विशेषाज्ञानादानन्त्यं, माषराशौ व्यभिचारात् । अस्मदादिभिः सङ्ख्यातुमशक्यस्यापि गणितज्ञेन सङ्ख्यातत्वदर्शनात् । सन्दिग्धं विशेषाज्ञानं सर्वपुरुषपरिचयादृते तदज्ञाननिश्चयस्याशक्यत्वात् । तस्मान्न जीवास्तत्त्वतोऽनन्ता वस्तुतः परिच्छिन्नत्वादेकदेशस्थमाषादिवदिति हेत्वसिद्धिमुद्धृत्य फलितमाह -
ततश्चेति ।
कतिपयसंसारिषूक्तन्यायमवशिष्टेष्वतिदिशति –
एवमिति ।
यथा बहूनामपि माषाणामेकैकापचये निखिलापचयो दृश्यते तथा क्रमेण सर्वमुक्तेरिदानीं सर्वसंसारशून्यं जगद् भवेदित्यर्थः ।
किञ्चेश्वरस्यास्मिन् पक्षे सर्वदा सर्वज्ञत्वं सर्वेश्वरत्वं च न सिद्ध्यतीत्याह -
प्रधानं चेति ।
दोषान्तरमाह -
प्रधानेति ।
सिद्धे सर्वेषामाद्यन्तवत्त्वे फलितमाह -
आद्यन्तेति ।
कल्पान्तरमनुवदति -
अथेति ।
वाशब्दसूचितं विकल्पद्वयमुक्त्वाद्यन्तवत्त्वं प्रतिपाद्य द्वितीयमवलम्ब्यासर्वज्ञतेति ।
दूषयति -
तत इति ।
आगमानपेक्षस्यानुमानसिद्धमन्तवत्त्वं दुर्वारम् । अस्माकं त्वागमगम्यत्वादानन्त्यस्य नान्तवत्त्वानुमानम् । एतेन पूर्वपक्षानुमानान्यपि प्रत्युक्तानीति मत्वोपसंहरति -
तस्मादिति ।
शरीरादिराहित्यानुपपत्तिवदानन्त्याद्यभ्युपगमायोगादपीत्यपेरर्थः । अपौरुषेयश्रुतिसिद्धेश्वरस्य न निरासोऽस्तीति तार्किकविशेषणम् ॥ ४१ ॥