चकारार्थमाह -
इतश्चेति ।
सङ्कर्षणाज्जीवान्मनसो जन्मकल्पना नेत्यत्रेतःशब्दगृहीतं हेतुं स्फुटयति -
यस्मादिति ।
सिद्धकरणप्रयोक्ता कर्तेऽति प्रसिद्धिद्योतको हिशब्दः ।
करणस्य कर्तुरुत्पत्त्यभावेऽपि भागवतकल्पना कथमसङ्गतेति तद्वक्तुं तत्कल्पनामनुवदति -
वर्णयन्तीति ।
लोके करणस्य कर्तुरुत्पत्त्यभावेऽपि कथं परेषां कल्पना न कल्पते स्मृतिमूलत्वादित्याशङ्क्य तन्मूलं प्रत्यक्षमनुमानं श्रुतिर्वेति विकल्प्याद्यौ प्रत्याह -
नचेति ।
न तावदस्याः स्मृतेरध्यक्षं मूलं, जीवान्मनोजनौ परस्येन्द्रियसंनिकर्षे नियामकाभावात् । न द्वितीयः । दृष्टान्तं विनानुमानायोगात् । यद्यपि बहुविधविद्यापर्यवदातोऽपि विधाय करे कठोरधारं कुठारं तेन निष्ठुरमपि काष्ठं छिनत्ति तथापि न तस्यासावुपादानम् । तथा सङ्कर्षणोऽपि प्रद्युम्नस्य नोपादानं स्यात् । नच सङ्कर्षणस्याकरणस्य प्रद्युम्ननिर्माणम् । इतरथा करणमन्तरेणैव सर्वनिर्माणात्तत्कल्पनावैयर्थ्यादिति भावः ।
तृतीयं दूषयति -
नचेति ॥ ४३ ॥