ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
न च कर्तुः करणम् ॥ ४३ ॥
इतश्चासङ्गतैषा कल्पनायस्मान्न हि लोके कर्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यतेवर्णयन्ति भागवताः कर्तुर्जीवात्सङ्कर्षणसंज्ञकात्करणं मनः प्रद्युम्नसंज्ञकमुत्पद्यते, कर्तृजाच्च तस्मादनिरुद्धसंज्ञकोऽहंकार उत्पद्यत इति चैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः चैवंभूतां श्रुतिमुपलभामहे ॥ ४३ ॥

चकारार्थमाह -

इतश्चेति ।

सङ्कर्षणाज्जीवान्मनसो जन्मकल्पना नेत्यत्रेतःशब्दगृहीतं हेतुं स्फुटयति -

यस्मादिति ।

सिद्धकरणप्रयोक्ता कर्तेऽति प्रसिद्धिद्योतको हिशब्दः ।

करणस्य कर्तुरुत्पत्त्यभावेऽपि भागवतकल्पना कथमसङ्गतेति तद्वक्तुं तत्कल्पनामनुवदति -

वर्णयन्तीति ।

लोके करणस्य कर्तुरुत्पत्त्यभावेऽपि कथं परेषां कल्पना न कल्पते स्मृतिमूलत्वादित्याशङ्क्य तन्मूलं प्रत्यक्षमनुमानं श्रुतिर्वेति विकल्प्याद्यौ प्रत्याह -

नचेति ।

न तावदस्याः स्मृतेरध्यक्षं मूलं, जीवान्मनोजनौ परस्येन्द्रियसंनिकर्षे नियामकाभावात् । न द्वितीयः । दृष्टान्तं विनानुमानायोगात् । यद्यपि बहुविधविद्यापर्यवदातोऽपि विधाय करे कठोरधारं कुठारं तेन निष्ठुरमपि काष्ठं छिनत्ति तथापि न तस्यासावुपादानम् । तथा सङ्कर्षणोऽपि प्रद्युम्नस्य नोपादानं स्यात् । नच सङ्कर्षणस्याकरणस्य प्रद्युम्ननिर्माणम् । इतरथा करणमन्तरेणैव सर्वनिर्माणात्तत्कल्पनावैयर्थ्यादिति भावः ।

तृतीयं दूषयति -

नचेति ॥ ४३ ॥