ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥
अथापि स्यात् चैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते , किं तर्हि ? ईश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्तेवासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेतितस्मान्नायं यथावर्णित उत्पत्त्यसम्भवो दोषः प्राप्नोतीतिअत्रोच्यतेएवमपि, तदप्रतिषेधः उत्पत्त्यसम्भवस्याप्रतिषेधः, प्राप्नोत्येवायमुत्पत्त्यसम्भवो दोषः प्रकारान्तरेणेत्यभिप्रायःकथम् ? यदि तावदयमभिप्रायःपरस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणः, नैषामेकात्मकत्वमस्तीति; ततोऽनेकेश्वरकल्पनानर्थक्यम् , एकेनैवेश्वरेणेश्वरकार्यसिद्धेःसिद्धान्तहानिश्च, भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात्अथायमभिप्रायःएकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवोत्पत्त्यसम्भवः हि वासुदेवात्सङ्कर्षणस्योत्पत्तिः सम्भवति, सङ्कर्षणाच्च प्रद्युम्नस्य, प्रद्युम्नाच्चानिरुद्धस्य, अतिशयाभावात्भवितव्यं हि कार्यकारणयोरतिशयेन, यथा मृद्घटयोः ह्यसत्यतिशये, कार्यं कारणमित्यवकल्पते पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिषु एकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदोऽभ्युपगम्यतेवासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते चैते भगवद्व्यूहाश्चतुःसंख्यायामेवावतिष्ठेरन् , ब्रह्मादिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात् ॥ ४४ ॥

वासुदेवान्न सङ्कर्षणस्य जन्म, नापि सङ्कर्षणात्प्रद्युम्नस्येत्यत्रेष्टापत्तिमाशङ्क्याह -

विज्ञानादीति ।