ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥
अथापि स्यात् — न चैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते , किं तर्हि ? ईश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते — वासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति । तस्मान्नायं यथावर्णित उत्पत्त्यसम्भवो दोषः प्राप्नोतीति । अत्रोच्यते — एवमपि, तदप्रतिषेधः उत्पत्त्यसम्भवस्याप्रतिषेधः, प्राप्नोत्येवायमुत्पत्त्यसम्भवो दोषः प्रकारान्तरेणेत्यभिप्रायः । कथम् ? यदि तावदयमभिप्रायः — परस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणः, नैषामेकात्मकत्वमस्तीति; ततोऽनेकेश्वरकल्पनानर्थक्यम् , एकेनैवेश्वरेणेश्वरकार्यसिद्धेः । सिद्धान्तहानिश्च, भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् । अथायमभिप्रायः — एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवोत्पत्त्यसम्भवः । न हि वासुदेवात्सङ्कर्षणस्योत्पत्तिः सम्भवति, सङ्कर्षणाच्च प्रद्युम्नस्य, प्रद्युम्नाच्चानिरुद्धस्य, अतिशयाभावात् । भवितव्यं हि कार्यकारणयोरतिशयेन, यथा मृद्घटयोः । न ह्यसत्यतिशये, कार्यं कारणमित्यवकल्पते । न च पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिषु एकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदोऽभ्युपगम्यते । वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते । न चैते भगवद्व्यूहाश्चतुःसंख्यायामेवावतिष्ठेरन् , ब्रह्मादिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात् ॥ ४४ ॥

सूत्रव्यावर्त्यमुत्थापयति -

अथापीति ।

जीवादित्वेनेष्टानां सङ्कर्षणादीनां पूर्वस्मात्पूर्वस्माज्जन्माभावेऽपीति यावत् ।

तदेव दर्शयति -

नचेति ।

तर्हि केन प्रकारेणाभिप्रेयमाणत्वं, तदाह -

किमिति ।

सर्वेषामीश्वरत्वे हेतुमाह -

ज्ञानेति ।

ज्ञानं चैश्वर्यं च तयोः शक्तिरान्तरं सामर्थ्यम् । बलं शारीरं सामर्थ्यम् । वीर्यं शौर्यम् । तेजः प्रागल्भ्यम् । ते खल्वैश्वरा धर्मास्तैरन्विता यतः सङ्कर्षणादयस्तस्माद्युक्तं तेषां सर्वेषामीश्वरत्वमित्यर्थः ।

तत्र भागवतोक्तिमाह -

वासुदेवा इति ।

निर्दोषत्वमविद्यादिराहित्यम् । निरधिष्ठानत्वं निरुपादानत्वम् । निरवद्यत्वमनित्यत्वादिदोषशून्यत्वम् ।

सर्वेषामीश्वरत्वे तदुत्पत्त्ययोगे गुणत्वाद्दोषो नेति फलितमाह -

तस्मादिति ।

सिद्धान्तत्वेन सूत्रमवतारयति -

अत्रेति ।

तद्व्याकरोति -

एवमिति ।

विज्ञानैश्वर्यशक्त्यादीनां सर्वत्र तुल्यत्वेऽपीत्यर्थः ।

जीवादिभावोपगमकृता पूर्वत्रोत्पत्त्यनुपपत्तिरुक्ता सा कथं सर्वेषामीश्वरत्वे न स्यादित्याशङ्क्याह -

प्राप्नोतीति ।

प्रकारान्तरं बुभुत्सते -

कथमिति ।

वासुदेवादयस्तुल्यधर्माण ईश्वराः किं मिथो भिन्ना एव न त्वैक्यमेषामस्ति किं वैकस्यैव भगवतोऽवस्थाभेदा एत इति विकल्प्याद्यमनुवदति -

यदीति ।

ते व्याहतकामाः स्युर्न वा । आद्ये कार्यासिद्धिः । चरमे त्वेकेनैवेशनायाः कृतत्वादितरानर्थक्यम् । सम्भूयकारित्वे परिषद्वन्न कश्चिदीश्वरः स्यादित्याह -

तत इति ।

अनेकेश्वरपक्षे दोषान्तरमाह -

सिद्धान्तेति ।

कल्पान्तरमुत्थापयति -

अथेति ।

तुल्यधर्माणो वासुदेवादयश्चत्वारोऽपीश्वरा भगवतो व्यूहाः स्वीकृताः । तथाचैकात्मान इति नोक्तदोष इत्यर्थः ।

वासुदेवादीनामेकव्यूहत्वेनैक्यमुपेत्य प्रागुक्तं प्रसञ्जयति -

तथापीति ।

उत्पत्त्यसम्भवतादवस्थ्यं समर्थयते -

नहीति ।

अतिशयमृतेऽपि कार्यकारणता स्यादित्याशङ्क्य दृष्टवैषम्यान्मैवमित्याह -

भवितव्यं हीति ।

अन्वयमुक्त्वा व्यतिरेकमाह -

नहीति ।

ननु ज्ञानादीनामुत्कर्षो यत्र पर्यवस्यति तस्य कारणत्वं सातिशयज्ञानादिमतां कार्यतेत्यतिशयोऽस्ति । नेत्याह -

नचेति ।

कथं तर्हि पञ्चरात्रिणामुपगमः, तत्राह -

वासुदेवा इति ।

व्यूहादीनां चतुष्टयमङ्गीकृत्योक्त्वा तन्नियमं निराचष्टे -

नचेति ॥ ४४ ॥