सूत्रव्यावर्त्यमुत्थापयति -
अथापीति ।
जीवादित्वेनेष्टानां सङ्कर्षणादीनां पूर्वस्मात्पूर्वस्माज्जन्माभावेऽपीति यावत् ।
तदेव दर्शयति -
नचेति ।
तर्हि केन प्रकारेणाभिप्रेयमाणत्वं, तदाह -
किमिति ।
सर्वेषामीश्वरत्वे हेतुमाह -
ज्ञानेति ।
ज्ञानं चैश्वर्यं च तयोः शक्तिरान्तरं सामर्थ्यम् । बलं शारीरं सामर्थ्यम् । वीर्यं शौर्यम् । तेजः प्रागल्भ्यम् । ते खल्वैश्वरा धर्मास्तैरन्विता यतः सङ्कर्षणादयस्तस्माद्युक्तं तेषां सर्वेषामीश्वरत्वमित्यर्थः ।
तत्र भागवतोक्तिमाह -
वासुदेवा इति ।
निर्दोषत्वमविद्यादिराहित्यम् । निरधिष्ठानत्वं निरुपादानत्वम् । निरवद्यत्वमनित्यत्वादिदोषशून्यत्वम् ।
सर्वेषामीश्वरत्वे तदुत्पत्त्ययोगे गुणत्वाद्दोषो नेति फलितमाह -
तस्मादिति ।
सिद्धान्तत्वेन सूत्रमवतारयति -
अत्रेति ।
तद्व्याकरोति -
एवमिति ।
विज्ञानैश्वर्यशक्त्यादीनां सर्वत्र तुल्यत्वेऽपीत्यर्थः ।
जीवादिभावोपगमकृता पूर्वत्रोत्पत्त्यनुपपत्तिरुक्ता सा कथं सर्वेषामीश्वरत्वे न स्यादित्याशङ्क्याह -
प्राप्नोतीति ।
प्रकारान्तरं बुभुत्सते -
कथमिति ।
वासुदेवादयस्तुल्यधर्माण ईश्वराः किं मिथो भिन्ना एव न त्वैक्यमेषामस्ति किं वैकस्यैव भगवतोऽवस्थाभेदा एत इति विकल्प्याद्यमनुवदति -
यदीति ।
ते व्याहतकामाः स्युर्न वा । आद्ये कार्यासिद्धिः । चरमे त्वेकेनैवेशनायाः कृतत्वादितरानर्थक्यम् । सम्भूयकारित्वे परिषद्वन्न कश्चिदीश्वरः स्यादित्याह -
तत इति ।
अनेकेश्वरपक्षे दोषान्तरमाह -
सिद्धान्तेति ।
कल्पान्तरमुत्थापयति -
अथेति ।
तुल्यधर्माणो वासुदेवादयश्चत्वारोऽपीश्वरा भगवतो व्यूहाः स्वीकृताः । तथाचैकात्मान इति नोक्तदोष इत्यर्थः ।
वासुदेवादीनामेकव्यूहत्वेनैक्यमुपेत्य प्रागुक्तं प्रसञ्जयति -
तथापीति ।
उत्पत्त्यसम्भवतादवस्थ्यं समर्थयते -
नहीति ।
अतिशयमृतेऽपि कार्यकारणता स्यादित्याशङ्क्य दृष्टवैषम्यान्मैवमित्याह -
भवितव्यं हीति ।
अन्वयमुक्त्वा व्यतिरेकमाह -
नहीति ।
ननु ज्ञानादीनामुत्कर्षो यत्र पर्यवस्यति तस्य कारणत्वं सातिशयज्ञानादिमतां कार्यतेत्यतिशयोऽस्ति । नेत्याह -
नचेति ।
कथं तर्हि पञ्चरात्रिणामुपगमः, तत्राह -
वासुदेवा इति ।
व्यूहादीनां चतुष्टयमङ्गीकृत्योक्त्वा तन्नियमं निराचष्टे -
नचेति ॥ ४४ ॥