ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
विप्रतिषेधाच्च ॥ ४५ ॥
विप्रतिषेधश्च अस्मिन् शास्त्रे बहुविध उपलभ्यतेगुणगुणित्वकल्पनादि लक्षणःज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणाः, आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात्वेदविप्रतिषेधश्च भवतिचतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात्तस्मात् असङ्गतैषा कल्पनेति सिद्धम् ॥ ४५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः

इतश्चानादरणीयमिदं मतमित्याह -

विप्रतिषेधाच्चेति ।