ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
विप्रतिषेधाच्च ॥ ४५ ॥
विप्रतिषेधश्च अस्मिन् शास्त्रे बहुविध उपलभ्यतेगुणगुणित्वकल्पनादि लक्षणःज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणाः, आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात्वेदविप्रतिषेधश्च भवतिचतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात्तस्मात् असङ्गतैषा कल्पनेति सिद्धम् ॥ ४५ ॥

सूत्रं व्याचष्टे -

विप्रतिषेधश्चेति ।

विरोधमेव स्फुटयति -

गुणेति ।

आदिग्रहणात्प्रद्युम्नानिरुद्धयोर्मनोहङ्कारयोरात्मनो भेदमुक्त्वात्मान एवैत इति तद्विरुद्धोक्तिर्गृहीता । गुणगुणित्वकल्पनारूपं विप्रतिषेधमाह -

ज्ञानेति ।

आत्मभ्यो गुणिभ्यो ज्ञानादीन्गुणान्भेदेनोक्त्वा पुनरात्मन एवैत इत्यब्रुवंस्ततो विप्रतिषेधः । अत्रादिशब्देन सङ्कर्षणो नाम जीवः प्रद्युम्नो मनोऽनिरुद्धोऽहङ्कार इति भेदमुक्त्वा पुनरात्मान एवेत्यभेदवादाद्विप्रतिषेधो गृह्यते ।

प्रकारान्तरेण सूत्रं व्याचष्टे -

वेदेति ।

अत्रादिशब्देन भागवते शास्त्रे पादमात्राध्ययनादशेषवेदाध्ययनफलं सिध्यति ।

स्वाध्यायमात्राध्येतुर्विशिष्यते भागवतशास्त्राक्षरमात्राध्येतेत्यादिनिन्दा गृहीता । भागवतशास्त्रप्रणेतुः सर्वज्ञतया भ्रान्त्यभावेऽपि वेदाविरुद्धतान्त्रिकानुष्ठानवासुदेवार्चनोद्येकदेशप्रामाण्येऽपि जीवजन्मादिवाक्यप्रणयनान्यथानुपपत्त्यैव प्राणिनां विरुद्धधीद्वारा दुरितफलदानाय व्यामोहकत्वम् । जीवजन्मश्रुतीनामिव तज्जन्मस्मृतीनामपि चान्यपरत्वमनुत्पत्तिश्रुतिविरोधादित्यधिकरणार्थमुपसंहरति -

तस्मादिति ।

तदेवं परपक्षाणां भ्रान्तिमूलत्वान्न तैर्विरोधः समन्वयस्येति पादार्थं निगमयति -

सिद्धमिति ॥ ४५ ॥