अतिक्रान्ते पादे समन्वयस्थापनाय परपक्षाणां भ्रान्तिमूलत्वमुक्तम् । इदानीमपि समन्वयस्थित्यै भूतभोक्तृविषयसृष्ट्यादिश्रुतिविगानं निराक्रियते । तत्रानुत्पत्तिप्रसङ्गेन वियतोऽपि तदसम्भवमाशङ्क्य परिहरन्नादावेकदेशिमतमाह -
न वियदिति ।