पादद्वये पूर्वपक्षे श्रुतीनां मिथो विरोधः सिद्धान्ते त्वविरोधः साध्यते । तेन विरोधाविरोधाभ्यां सन्देहे वाच्ये गौणवाद्यभिप्रायेणाह -
किमस्येति ।
तैत्तिरीयच्छान्दोग्यश्रुतिभ्यां सन्दिह्यगौणवाद्यभिप्रायं प्रकटयितुं सूत्रमादत्ते -
तत्रेति ।
तदक्षराणि व्याचष्टे -
न खल्विति ।
तैत्तिरीये वियदुत्पत्तिश्रुतेरन्यत्र तदश्रुतेर्मिथो विरोधे पर्यवसानमाशङ्क्य वक्ष्यमाणप्रमाणविरोधाज्जन्मश्रुतेर्गौणत्वात्तेजोमुखैव सृष्टिरिति कुतो विरोधाशङ्केत्याशयेनाह -
छान्दोग्ये हीति ।
आकाशस्य जन्माश्रवणेऽपि कथमनुमानसिद्धा तदुत्पत्तिरपह्नूयेतेत्याशङ्क्याह -
श्रुतिश्चेति ।
तर्हि श्रुतिरेवास्तीत्याशङ्क्य सा गौणीति सूचितमित्याह -
नचेति ।
तैत्तिरीयश्रुतेर्गौणत्वादन्यस्यामुख्यत्वान्न मिथो विरोधोऽस्तीत्युपसंहरति -
तस्मादिति ॥ १ ॥