ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न वियदश्रुतेः ॥ १ ॥
किमस्याकाशस्योत्पत्तिरस्ति, उत नास्तीतितत्र तावत्प्रतिपाद्यते — ‘ वियदश्रुते’रिति; खल्वाकाशमुत्पद्यतेकस्मात् ? अश्रुतेः ह्यस्योत्पत्तिप्रकरणे श्रवणमस्तिछान्दोग्ये हि सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इति सच्छब्दवाच्यं ब्रह्म प्रकृत्य, ‘तदैक्षततत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति पञ्चानां महाभूतानां मध्यमं तेज आदि कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यतेश्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ अत्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनीतस्मान्नाकाशस्योत्पत्तिरिति ॥ १ ॥

पादद्वये पूर्वपक्षे श्रुतीनां मिथो विरोधः सिद्धान्ते त्वविरोधः साध्यते । तेन विरोधाविरोधाभ्यां सन्देहे वाच्ये गौणवाद्यभिप्रायेणाह -

किमस्येति ।

तैत्तिरीयच्छान्दोग्यश्रुतिभ्यां सन्दिह्यगौणवाद्यभिप्रायं प्रकटयितुं सूत्रमादत्ते -

तत्रेति ।

तदक्षराणि व्याचष्टे -

न खल्विति ।

तैत्तिरीये वियदुत्पत्तिश्रुतेरन्यत्र तदश्रुतेर्मिथो विरोधे पर्यवसानमाशङ्क्य वक्ष्यमाणप्रमाणविरोधाज्जन्मश्रुतेर्गौणत्वात्तेजोमुखैव सृष्टिरिति कुतो विरोधाशङ्केत्याशयेनाह -

छान्दोग्ये हीति ।

आकाशस्य जन्माश्रवणेऽपि कथमनुमानसिद्धा तदुत्पत्तिरपह्नूयेतेत्याशङ्क्याह -

श्रुतिश्चेति ।

तर्हि श्रुतिरेवास्तीत्याशङ्क्य सा गौणीति सूचितमित्याह -

नचेति ।

तैत्तिरीयश्रुतेर्गौणत्वादन्यस्यामुख्यत्वान्न मिथो विरोधोऽस्तीत्युपसंहरति -

तस्मादिति ॥ १ ॥