ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
गौण्यसम्भवात् ॥ ३ ॥
नास्ति वियत उत्पत्तिः, अश्रुतेरेवया त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता, सा गौणी भवितुमर्हतिकस्मात् ? असम्भवात् ह्याकाशस्योत्पत्तिः सम्भावयितुं शक्या, श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सुते हि कारणसामग्र्यसम्भवादाकाशस्योत्पत्तिं वारयन्तिसमवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यतेद्रव्यस्य चैकजातीयकमनेकं द्रव्यं समवायिकारणं भवति चाकाशस्यैकजातीयकमनेकं द्रव्यमारम्भकमस्ति; यस्मिन्समवायिकारणे सति, असमवायिकारणे तत्संयोगे, आकाश उत्पद्येततदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेव आकाशस्य भवतिउत्पत्तिमतां तेजःप्रभृतीनां पूर्वोत्तरकालयोर्विशेषः सम्भाव्यतेप्रागुत्पत्तेः प्रकाशादिकार्यं बभूव, पश्चाच्च भवतीतिआकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः सम्भावयितुं शक्यतेकिं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम् ? पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणात् आकाशस्य अजत्वसिद्धिःतस्माद्यथा लोकेआकाशं कुरु, आकाशो जातःइत्येवंजातीयको गौणः प्रयोगो भवति, यथा घटाकाशः करकाकाशः गृहाकाशःइत्येकस्याप्याकाशस्य एवंजातीयको भेदव्यपदेशो गौणो भवतिवेदेऽपिआरण्यानाकाशेष्वालभेरन्इतिएवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या ॥ ३ ॥

ये त्वतिक्रान्तसूत्रद्वयं मतद्वयमुपन्यस्य विप्रतिषेधमभिदधत्पूर्वपक्षसङ्गतमिति व्याचक्षते तान्व्यावर्त्य गौणवाद्येव पूर्वत्रापि वियदनुत्पत्तिवादीति प्रत्यभिज्ञापयन्व्याचष्टे -

नास्तीति ।

तदुत्पत्तिश्रुतेरपि दर्शितत्वाद्विप्रतिषेधे कः समाधिरित्याशङ्क्याह -

या त्विति ।

तेजःप्राथम्यानुरोधेनाकाशस्योत्पत्तिः प्राथम्यं चेति द्वयबाधनमयुक्तमाकाशप्राथम्यानुरोधेन तेजसि प्राथम्यस्यैव बाधनमिति मन्वानश्चोदयति -

कस्मादिति ।

न वयं तेजःप्राथम्यमनुरुन्धाना द्वयबाधं शिंष्मः, किन्तु मानान्तरविरोधादित्याह -

असम्भवादिति ।

वैशेषिकाधिकरणेन तन्मतस्य निरस्तत्वात्तदवष्टम्भेन कथमसम्भवकथेत्याशङ्क्याह -

नहीति ।

कणभुगभिप्रायमेव प्रकटयति -

ते हीति ।

आकाशं नोत्पद्यते, कारणत्रयशून्यत्वात् , आत्मवदित्यर्थः ।

समवायीति ।

परप्रसिद्धिद्योतनार्थो हिशब्दः । तत्र स्वानभ्युपगमं दर्शयितुं किलेति ।

आकाशस्यापि तर्हि त्रीणि कारणानि भविष्यन्तीत्याशङ्क्य समवायिकारणविशेषस्वरूपमाह -

द्रव्यस्येति ।

तदभावमाकाशे दर्शयति -

न चेति ।

समवायिकारणे निरस्ते सत्यसमवायिकारणमपि निरस्तमेवेत्याह -

यस्मिन्निति ।

कारणद्वयनिरासेन निमित्तकारणनिरसनं सुकरमित्याह -

तदभावात्त्विति ।

कारणशून्यत्वादाकाशस्यानुत्पत्तिमनुमाय तत्रैवानुमानान्तरमाह -

उत्पत्तिमतां चेति ।

ये जायन्ते तेषामनुभवार्थक्रिये प्रागुत्पत्तेर्नोपलभ्येते यथा तेजःप्रभृतीनाम् । न चाकाशस्य तादृशो विशेषोऽस्ति । तस्मात्तन्नोत्पद्यते कार्यलक्षणविकलत्वादात्मवदित्यर्थः ।

प्रकाशनं प्रकाशोऽनुभवः । आदिशब्देनार्थक्रिया गृह्यते । अभूत्वा भावित्वं हि कार्यलक्षणं, तदाकाशस्यापि सम्भवतीति कथं हेतुसिद्धिरित्याशङ्क्याह -

आकाशस्येति ।

तदेव स्फुट्यते -

किं हीति ।

महाद्रव्याश्रयत्वयोग्यो देशोऽवकाशः । तद्विरुद्धद्रव्याश्रयत्वयोग्यं सुषिरम् । अणुद्वयतत्संयोगाश्रयत्वयोग्यं छिद्रम् । एतत्त्रयरहितं न किञ्चित्प्रागासीदिति विशेषणानामर्थः ।

किञ्चाकाशो न जायते, विभुत्वात् , निरवयवद्रव्यत्वादस्पर्शद्रव्यत्वाच्च, आत्मवदित्यनुमानत्रयमाह -

पृथिव्यादीति ।

उक्तानुमानानामुत्पत्तिश्रुतिविरोधमाशङ्क्य तस्या गौणत्वं सदृष्टान्तमुपसंहरति -

तस्मादिति ।

आलोकादिवदाकाशस्य प्रदेशभेदवत्त्वान्मुख्यं जन्मेत्याशङ्क्य जन्मप्रयोजकप्रदेशभेदस्यापि गौणत्वमेवेत्याह -

यथा चेति ।

लौकिकव्यपदेशस्य गौणत्वेऽपि वैदिकव्यपदेशस्य मुख्यत्वमेवेत्याशङ्क्याह -

वेदेऽपीति ।

इतिशब्दादुपरिष्टाद्गौणो भेदव्यपदेशो भवतीति सम्बन्धः ॥ ३ ॥