तद्व्याचष्टे -
शब्दः खल्विति ।
अमृतत्वमेवात्र श्रूयते न त्वनुत्पत्तिरित्याशङ्क्याह -
न हीति ।
श्रुतार्थापत्त्यन्तरमाह -
आकाशवदिति ।
तथापि कथमनुत्पत्तिः, तत्राह -
न चेति ।
तदनुत्पत्तौ वाक्यमपि मानमित्याह -
स यथेति ।
आदिमध्यावसानवैधुर्यमानन्त्यं, तदाकाशस्यादिमत्त्वे नोपपद्येत । आत्मनोऽपि तत्प्रसङ्गादित्यर्थः ।
किञ्च नीलमुत्पलमितिवदाकाशेन ब्रह्मणो विशेषणं दृष्टं, तदाकाशस्यानुत्पत्तिमत्त्वं साधयतीत्याह -
आकाशेति ।
चकारादुदाहरणमित्यनुकृष्यते ।
आकाशस्योत्पत्तिमत्त्वेऽपि तेन ब्रह्मणो विशेषणत्वं किं न स्यादित्याशङ्क्य बहुव्रीहिणा तादात्म्यावगमान्मैवमित्याह -
नहीति ।
शब्दसामर्थ्यसिद्धमुपसंहरति -
तस्मादिति ॥ ४ ॥