ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
शब्दाच्च ॥ ४ ॥
शब्दः खल्वाकाशस्य अजत्वं ख्यापयति, यत आह — ‘वायुश्चान्तरिक्षं चैतदमृतम्’ (बृ. उ. २ । ३ । ३) इति; न ह्यमृतस्योत्पत्तिरुपपद्यते । ‘आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति च आकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमानः आकाशस्यापि तौ धर्मौ सूचयति । न च तादृशस्योत्पत्तिरुपपद्यते । ‘स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः’ इति च उदाहरणम् — ‘आकाशशरीरं ब्रह्म’ (तै. उ. १ । ६ । २) ‘आकाश आत्मा’ (तै. उ. १ । ७ । १) इति च । न ह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषणं सम्भवति — नीलेनेवोत्पलस्य । तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते ॥ ४ ॥

तद्व्याचष्टे -

शब्दः खल्विति ।

अमृतत्वमेवात्र श्रूयते न त्वनुत्पत्तिरित्याशङ्क्याह -

न हीति ।

श्रुतार्थापत्त्यन्तरमाह -

आकाशवदिति ।

तथापि कथमनुत्पत्तिः, तत्राह -

न चेति ।

तदनुत्पत्तौ वाक्यमपि मानमित्याह -

स यथेति ।

आदिमध्यावसानवैधुर्यमानन्त्यं, तदाकाशस्यादिमत्त्वे नोपपद्येत । आत्मनोऽपि तत्प्रसङ्गादित्यर्थः ।

किञ्च नीलमुत्पलमितिवदाकाशेन ब्रह्मणो विशेषणं दृष्टं, तदाकाशस्यानुत्पत्तिमत्त्वं साधयतीत्याह -

आकाशेति ।

चकारादुदाहरणमित्यनुकृष्यते ।

आकाशस्योत्पत्तिमत्त्वेऽपि तेन ब्रह्मणो विशेषणत्वं किं न स्यादित्याशङ्क्य बहुव्रीहिणा तादात्म्यावगमान्मैवमित्याह -

नहीति ।

शब्दसामर्थ्यसिद्धमुपसंहरति -

तस्मादिति ॥ ४ ॥