ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥
इदं पदोत्तरं सूत्रम्स्यादेतत्कथं पुनरेकस्य सम्भूतशब्दस्य तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं सम्भवति, आकाशे गौणत्वमितिअत उत्तरमुच्यतेस्याच्चैकस्यापि सम्भूतशब्दस्य विषयविशेषवशाद्गौणो मुख्यश्च प्रयोगःब्रह्मशब्दवत्; यथैकस्यापि ब्रह्मशब्दस्य तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्म’ (तै. उ. ३ । २ । १) इत्यस्मिन्नधिकारेऽन्नादिषु गौणः प्रयोगः, आनन्दे मुख्यःयथा तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दो भक्त्या प्रयुज्यते, अञ्जसा तु विज्ञेये ब्रह्मणितद्वत्कथं पुनरनुत्पत्तौ नभसः एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इतीयं प्रतिज्ञा समर्थ्यते ? ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोतिकथं ब्रह्मणि विदिते सर्वं विदितं स्यादिति, तदुच्यते — ‘एकमेवइति तावत्स्वकार्यापेक्षयोपपद्यतेयथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि उपलभ्य अपरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयात् — ‘मृदेवैकाकिनी पूर्वेद्युरासीत्इति, तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयात् , दण्डचक्रादितद्वदद्वितीयश्रुतिरधिष्ठात्रन्तरं वारयतियथा मृदोऽमत्रप्रकृतेः कुम्भकारोऽधिष्ठाता दृश्यते, नैवं ब्रह्मणो जगत्प्रकृतेरन्योऽधिष्ठाता अस्तीति नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यतेलक्षणान्यत्वनिमित्तं हि नानात्वम् प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति, क्षीरोदकयोरिव संसृष्टयोः , व्यापित्वामूर्तत्वादिधर्मसामान्यात्सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते, स्तिमितमितरत्तिष्ठति, तेनान्यत्वमवसीयतेतथा आकाशशरीरं ब्रह्म’ (तै. उ. १ । ६ । २) इत्यादिश्रुतिभ्योऽपि ब्रह्माकाशयोरभेदोपचारसिद्धिःअत एव ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिःअपि सर्वं कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते, ब्रह्मणा अव्यतिरिक्तदेशकालमेवाकाशं भवतीत्यतो ब्रह्मणा तत्कार्येण विज्ञातेन सह विज्ञातमेवाकाशं भवतियथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति; हि क्षीरग्रहणादब्बिन्दुग्रहणं परिशिष्यते; एवं ब्रह्मणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वात् गृहीतमेव ब्रह्मग्रहणेन नभो भवतितस्माद्भाक्तं नभसः सम्भवश्रवणमिति ॥ ५ ॥

पदविषयचोद्योत्तरमिदं सूत्रमिति तात्पर्यमाह -

इदमिति ।

तदेव चोद्यं दर्शयति -

स्यादेतदिति ।

एकवाक्यस्थस्यैकस्य पदस्यैकस्मिन्नेव प्रकरणे यत्रानुवृत्तिस्तत्र मुख्यत्वं यत्र प्रयोगस्तत्र गौणतेत्ययुक्तमित्यर्थः ।

चोद्योत्तरत्वेन सूत्रमवतार्य व्याकरोति -

अत इति ।

दृष्टान्तं व्याचष्टे -

यथेति ।

दार्ष्टान्तिके सम्भूतशब्दस्यैकस्यैव मुख्यत्वगौणत्वे, दृष्टान्ते तु शब्दभेदोऽस्तीति वैषम्यमित्याशङ्क्य प्रकरणाभेदे शब्दप्रवृत्तेरेकरूपत्वस्यौत्सर्गिकत्वेऽपि तदसम्भवेन गौणत्वमुख्यत्वे दृष्टान्तदृष्टे तथात्रापीत्येतावन्मात्रस्य विवक्षितत्वान्मैवमित्याह -

यथा चेति ।

अद्वितीयश्रुतिविरोधावधारणश्रुतिविरोधाच्चाकाशानुत्पत्तिरयुक्तेति शङ्कते -

कथमिति ।

का पुनः श्रुत्योरनुपपत्तिरित्याशङ्क्याक्षेप्तैव ब्रूते -

नन्विति ।

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधाच्चाकाशानुत्पत्तिरयुक्तेत्याह -

कथं चेति ।

चोद्यद्वयं परिहरति -

तदुच्यत इति ।

तत्रावधारणश्रुतेरुपपत्तिमाकाशानुत्पत्तिपक्षेऽपि दर्शयति -

एकमिति ।

आपेक्षिकमवधारणमित्यत्र दृष्टान्तमाह -

यथेति ।

कुलं गृहम् । अमत्राणि घटशरावादीनि पात्राणि । तत्रापि कथमवधारणेत्याशङ्क्याह -

स चेति ।

अन्यथा मृदादिप्रत्यक्षविरोधः स्यादिति भावः ।

प्रकृतेऽपि स्वकार्यापेक्षमवधारणमविरुद्धम् । तदकार्यं तु तदतिरिक्तमपि प्रागवस्थायामस्तु का हानिरित्याह -

तद्वदिति ।

अवधारणश्रुतिवदद्वितीयश्रुतेरविरोधमाह -

अद्वितीयेति ।

प्राप्त्यभावे किमर्थं तन्निवारणमित्याशङ्क्य प्राप्तिदर्शनपूर्वकं तन्निवारणमेव विवृणोति -

यथेति ।

यदुक्तं नभसा द्वितीयेन सद्वितीयं ब्रह्म स्यादिति, तत्राह -

न चेति ।

नभश्चेद्द्वितीयं कथं तेन ब्रह्म सद्वितीयं नेत्याशङ्क्याह -

लक्षणेति ।

शब्दवदाकाशमशब्दादिमद्ब्रह्मेत्यस्ति प्रस्तुतेऽपि लक्षणान्यत्वमित्याशङ्क्याह -

नचेति ।

निरवयवत्वारूपत्वादिसङ्ग्रहार्थमादिपदम् ।

लक्षणभेदाभावे कथं पृथक्त्वमनयोरित्याशङ्क्याह -

सर्गेति ।

लक्षणानन्यत्वनिमित्ताभेदोपचारादद्वितीयत्वमित्युक्तेऽर्थे श्रुतिमनुग्राहिकामाह -

तथेति ।

‘आकाश आत्मा', ‘खं ब्रह्म’ इत्याद्या श्रुतिरादिशब्दार्थः ।

लक्षणान्यत्वाभावेनाकाशस्य ब्रह्मानन्यत्वं हेतूकृत्य चोद्यान्तरमपाकरोति -

अत एवेति ।

इतश्च ब्रह्मविज्ञानेन सर्वविज्ञानमविरुद्धमित्याह -

अपिचेति ।

ब्रह्मणि तत्कार्ये च ज्ञाते तदेकदेशकालमाकाशमपि सहज्ञातमित्यत्र दृष्टान्तमाह -

यथेति ।

दृष्टान्तेऽपि कथमन्यस्य ग्रहादन्यस्य ग्रहणमित्याशङ्क्याह -

नहीति ।

दृष्टान्ते निविष्टमर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

गौणवादी स्वमतमुपसंहरति -

तस्मादिति ॥ ५ ॥