ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
तुशब्दोऽसम्भवाशङ्काव्यावृत्त्यर्थः खल्वाकाशोत्पत्तावसम्भवाशङ्का कर्तव्या; यतो यावत्किञ्चिद्विकारजातं दृश्यते घटघटिकोदञ्चनादि वा, कटककेयूरकुण्डलादि वा, सूचीनाराचनिस्त्रिंशादि वा, तावानेव विभागो लोके लक्ष्यतेनत्वविकृतं किञ्चित्कुतश्चिद्विभक्तमुपलभ्यतेविभागश्चाकाशस्य पृथिव्यादिभ्योऽवगम्यतेतस्मात्सोऽपि विकारो भवितुमर्हतिएतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम्नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति; , आत्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति श्रुतेःयदि ह्यात्मापि विकारः स्यात् , तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात्तथा शून्यवादः प्रसज्येतआत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः ह्यात्मागन्तुकः कस्यचित् , स्वयंसिद्धत्वात् ह्यात्मा आत्मनः प्रमाणमपेक्ष्य सिध्यतितस्य हि प्रत्यक्षादीनि प्रमाणान्यसिद्धप्रमेयसिद्धये उपादीयन्ते ह्याकाशादयः पदार्थाः प्रमाणनिरपेक्षाः स्वयं सिद्धाः केनचिदभ्युपगम्यन्तेआत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति चेदृशस्य निराकरणं सम्भवतिआगन्तुकं हि वस्तु निराक्रियते, स्वरूपम् एव हि निराकर्ता तदेव तस्य स्वरूपम् ह्यग्नेरौष्ण्यमग्निना निराक्रियतेतथा अहमेवेदानीं जानामि वर्तमानं वस्तु, अहमेवातीतमतीततरं चाज्ञासिषम् , अहमेवानागतमनागततरं ज्ञास्यामि, इत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये ज्ञातुरन्यथाभावोऽस्ति, सर्वदा वर्तमानस्वभावत्वात्तथा भस्मीभवत्यपि देहे नात्मन उच्छेदः वर्तमानस्वभावादन्यथास्वभावत्वं वा सम्भावयितुं शक्यम्एवमप्रत्याख्येयस्वभावत्वादेवाकार्यत्वमात्मानः, कार्यत्वं आकाशस्य

अक्षरोक्तमर्थं कथयति -

तुशब्द इति ।

व्यावृत्तिप्रकारमभिनयति -

न खल्विति ।

तत्र विभक्तत्वहेतुकमनुमानं हेतुं कुर्वन्व्याप्तिमाह -

यत इति ।

यद्विभक्तं तत्कार्यं यथा च घटादीत्यन्वयमुक्त्वा व्यतिरेकमाह -

न त्विति ।

यन्न कार्यं तन्न विभक्तं, यथात्मेत्यर्थः ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -

विभागश्चेति ।

विमतं कार्यम् , अविद्याव्यतिरिक्तत्वे सति विभक्तत्वात्सामान्यवत्त्वाद्गुणित्वाच्च घटवदित्यभिप्रेत्याह -

तस्मादिति ।

दिगादिषु व्यभिचारमाशङ्क्य पक्षतुल्यत्वान्मैवमित्याह -

एतेनेति ।

आत्मा गगनादिभ्यो विभको न वा । आद्ये विभक्तोऽपि विकारो नेति व्यभिचारः । द्वितीये तदभिन्नत्वात्तद्वदेव तस्यापि कार्यतेति मत्वा चोदयति -

नन्विति ।

न तावदात्मनि व्यभिचारः, सति मातरि बाधविधुरे विभागाभावात् । नच तस्य प्रातीतिकविभागेन कार्यत्वं, सर्वकारणत्वश्रुतिविरोधात् । नच तद्वदेवाकाशस्यापि न कार्यता, तत्कार्यतायाः श्रुतत्वादित्यभिप्रेत्याह -

न । आत्मन इति ।

आत्मनोऽपि वस्तुत्वाद्धटवत्कार्यत्वानुमानान्न सर्वकारणतेत्याशङ्क्यार्थापत्तिविरोधान्नैवमित्याह -

यदि हीति ।

निरात्मकत्वं निरुपादानत्वम् ।

तत्प्राप्तिफलमाह -

तथाचेति ।

इष्टापत्तिं निराचष्टे -

आत्मत्वाच्चेति ।

निराकर्तास्ति न वा । आद्ये निराकर्तैवात्मेत्यात्मनो नित्यसत्त्वम् । द्वितीये तदभावे निराकरणासिद्धेर्नित्यत्वमित्यर्थः ।

आत्मकारणस्यैवाकाशादिकारणत्वान्न सर्वस्य निरात्मकत्वमित्याशङ्क्याह -

नहीति ।

सत्तास्फूर्त्योरन्यानपेक्षत्वादात्मनोऽनागन्तुकत्वं, तत्कथं तत्कारणमाकाशादिकारणमित्यर्थः ।

प्रमाणापेक्षया सिध्यन्नात्मा कथं निरपेक्षस्फूर्तिरित्याशङ्क्याह -

नहीति ।

तस्यापि स्वयमेव साधकत्वादित्यर्थः ।

प्रत्प्रक्षाद्व्यतिरेकेणात्मनः सिद्धत्वे तेषामानर्थक्यमित्याशङ्क्याह -

तस्य हीति ।

आत्मानः स्वयंसिद्धत्वे वस्तुत्वाविशेषादाकाशादीनामपि तथा सम्भवात्प्रमाणवैयर्थ्यतादवस्थ्यमित्याशङ्क्याह -

नहीति ।

जडत्वादनभ्युपगमाच्च न स्वतःसिद्धता तेषामित्यर्थः ।

आत्मनोऽपि स्वप्रकाशत्वं वादिनो नोपगच्छन्तीत्याशङ्क्याह -

आत्मा त्विति ।

प्रमाणादिसाक्षित्वान्न तदधीनात्मसिद्धिरित्यर्थः ।

आत्मनः स्वप्रकाशत्वेऽपि कथमनिराकरणमित्याशङ्क्याह -

नचेति ।

निराकरणमपि तदधीनात्मलाभं तद्विरुद्धं नोदेतीत्यर्थः ।

अहमस्मि ब्रह्मेति तत्त्वज्ञानान्नाहं कर्ता भोक्ता चेत्यात्मनोऽपि निराकरणं दृष्टमित्याशङ्क्याह -

आगन्तुकं हीति ।

जीवत्वमनागन्तुकमपि निराक्रियमाणमिष्टमित्याशङ्क्याह -

नेति ।

किं तर्हि स्वरूपं तदाह -

य एवेति ।

तदपि निराक्रियतामित्याशङ्क्य निराकर्त्रन्तराभावान्नैवमित्याह -

नहीति ।

आत्मनः सत्तास्फूर्त्योरन्यानपेक्षत्वमनागन्तुकत्वे कारणमुक्त्वा स्फूर्तावन्यानपेक्षत्वमुपपाद्य सत्तायामपि तदुपपादयति -

तथेति ।

सदाहमित्यपरोक्षैकरूपानुभवान्नात्मनः सत्ताव्यभिचारः, येनान्यतः सत्तामाकाङ्क्षेदित्यर्थः ।

जीवतो मातुरन्यथाभावाभावेेऽपि मृतस्य स्यादित्याशङ्क्याह -

तथेत्यादिना ।

यत्स्वभावत्वमनुभवसिद्धं तस्यान्यथात्वं बाधकादवसातव्यं, बाधकं च घटादीनां स्वभावाद्विचलनं मानोपनीतं, यस्य तु न तदस्ति तस्यात्मनोऽनुभवसिद्धस्य नान्यथात्वमिति भावः ।

आत्मनः स्वतःसिद्धत्वेनानागन्तुकत्वे फलितमाह -

एवमिति ।

विभक्तत्वहेतोरव्यभिचारेऽपि बाधकतर्काभावादप्रयोजकतेत्याशङ्क्याह -

कार्यत्वं चेति ।

अकार्यस्यात्मनः स्वरूपोपाधावबाधितभेदशून्यत्वान्न मुख्यं विभक्तत्वम् । आकाशस्य तथाविधभेदवत्त्वान्मुख्यविभागित्वेन कार्यत्वमन्यथा मुख्यविभागानुपपत्तिरिति कुतोऽप्रयोजकतेत्यर्थः ।