असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥
वियत्पवनयोरसम्भाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य, ब्रह्मणोऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिः । तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्य, आकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येत । तामाशङ्कामपनेतुमिदं सूत्रम् —
‘असम्भवस्त्वि’ति ।
न खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः सम्भव उत्पत्तिराशङ्कितव्या ।
कस्मात् ?
अनुपपत्तेः ।
सन्मात्रं हि ब्रह्म ।
न तस्य सन्मात्रादेवोत्पत्तिः सम्भवति,
असत्यतिशये प्रकृतिविकारभावानुपपत्तेः ।
नापि सद्विशेषात् ,
दृष्टविपर्ययात् —
सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते;
मृदादेर्घटादयः।
न तु विशेषेभ्यः सामान्यम् ।
नाप्यसतः,
निरात्मकत्वात् ।
‘कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति च आक्षेपश्रवणात् ।
‘स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’ (श्वे. उ. ६ । ९) इति च ब्रह्मणो जनयितारं वारयति ।
वियत्पवनयोः पुनरुत्पत्तिः प्रदर्शिता,
न तु ब्रह्मणः सा अस्तीति वैषम्यम् ।
न च विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्रह्मणोऽपि विकारत्वं भवितुमर्हति,
मूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गात् ।
या मूलप्रकृतिरभ्युपगम्यते,
तदेव च नो ब्रह्मेत्यविरोधः ॥ ९ ॥