ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥
वियत्पवनयोरसम्भाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य, ब्रह्मणोऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिःतथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्य, आकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येततामाशङ्कामपनेतुमिदं सूत्रम्

‘न चास्य कश्चिज्जनिता’ इत्यादेर्ब्रह्मणोऽजत्वं प्रतिपादयतः समन्वयस्य ‘त्वं जातो भवसि’ इत्यादिश्रुत्या विरोधोऽस्त्युत नेत्येकवाक्यत्वासम्भवसम्भवाभ्यां सन्देहे पूर्वपक्षमाह -

वियदिति ।

दर्शितश्रुतिविरोधपरिहारद्वारा समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे विरोधादप्रामाण्ये नित्यसिद्धे ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते वाक्यैक्यादविरोधात्प्रामाण्ये तत्र तत्सिद्धिः ।

सम्भावनामात्रादर्थसिद्धावतिप्रसङ्गात्प्रमाणमेव साधकं वक्तव्यमित्याशङ्क्याह -

तथेति ।

ब्रह्म कस्यचित्कार्यं, कारणत्वात् , आकाशवत् । न चाजत्वश्रुतिविरोधः, अनुमानानुगृहीतजन्मश्रुत्या तस्या विरोधात् । न चानवस्थानुगृहीताजत्वश्रुतिर्बलवती, कार्यकारणपरम्पराया बीजादिवदानादित्वादन्धपरम्परया तदनुगृहीतत्वेऽपि तत्रानुमानानुगृहीतत्वेनाविशेषादस्ति विरोधः श्रुत्योरिति भावः ।

ब्रह्म न कार्यं, कारणशून्यत्वात् , नरविषाणवदित्यनुमानानुगृहीताजत्वश्रुत्या ब्रह्मणो नित्यत्वाज्जन्मश्रुतेरौपाधिकजन्मविषयत्वेनाविरोधान्नित्यसिद्धे ब्रह्मणि समन्वयसिद्धिरिति सिद्धान्तमाह -

तामिति ।