ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥
‘असम्भवस्त्वि’ति खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः सम्भव उत्पत्तिराशङ्कितव्याकस्मात् ? अनुपपत्तेःसन्मात्रं हि ब्रह्म तस्य सन्मात्रादेवोत्पत्तिः सम्भवति, असत्यतिशये प्रकृतिविकारभावानुपपत्तेःनापि सद्विशेषात् , दृष्टविपर्ययात्सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते; मृदादेर्घटादयः तु विशेषेभ्यः सामान्यम्नाप्यसतः, निरात्मकत्वात्कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति आक्षेपश्रवणात् कारणं करणाधिपाधिपो चास्य कश्चिज्जनिता चाधिपः’ (श्वे. उ. ६ । ९) इति ब्रह्मणो जनयितारं वारयतिवियत्पवनयोः पुनरुत्पत्तिः प्रदर्शिता, तु ब्रह्मणः सा अस्तीति वैषम्यम् विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्रह्मणोऽपि विकारत्वं भवितुमर्हति, मूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गात्या मूलप्रकृतिरभ्युपगम्यते, तदेव नो ब्रह्मेत्यविरोधः ॥ ९ ॥

तत्र प्रतिज्ञाभागं विभजते -

न खल्विति ।

कारणशून्यत्वं विशदीकुर्वन्प्रश्नपूर्वकं सौत्रं हेतुमादत्ते -

कस्मादिति ।

ब्रह्मणो हि कार्यत्वं ब्रुवता सन्मात्रं वा सद्विशेषो वा तस्यासद्वा कारणमिति वक्तव्यम् । नाद्य इत्याह -

सन्मात्रं हीति ।

न द्वितीय इत्याह -

नापीति ।

दृष्टविपर्ययमेव साधयति -

सामान्यादिति ।

न तृतीय इत्याह -

नापीति ।

श्रुतिविरोधाच्चायं पक्षो न सम्भवतीत्याह -

कथमिति ।

युक्त्या हेतुमुपपाद्य श्रुत्योपपादयति -

स कारणमिति ।

यदुक्तं वियत्पवनयोरसम्भाव्यमानजन्मनोरपीत्यादि, तत्राह -

वियदिति ।

विभक्तत्वमुत्पत्तावुपपत्तिः । ब्रह्मण्यपि तुल्यं विभक्तत्वमित्याशङ्क्य ब्रह्मत्वविरोधान्मैवमित्याह -

न त्विति ।

यत्तु तथेत्यादावनुमानमुक्तं तद्दूषयति -

नचेति ।

तस्य कार्यत्वं वदता मूलप्रकृतिरुपगम्यते न वेति विकल्प्य द्वितीयं प्रत्याह -

मूलेति ।

नचानादित्वान्नानवस्था, ब्रह्मणोऽपि कार्यत्वे तत्तदुपादानपरम्परायौगपद्ये प्रलयाभावप्रसङ्गादिति भावः ।

प्रथमे तुल्यबाधापत्तिरित्याशयेनाह -

या मूलेति ।

एवं कार्यत्वानुमानस्याभासत्वाज्जन्मश्रुतेश्चौपाधिकविषयत्वादकार्यत्वानुमानानुगृहीताजत्वश्रुतेर्बलीयस्त्वादितरस्यास्तदनुरोधित्वादितरेतराविरोधान्नित्याद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयः सम्भवतीत्युपसंहरति -

इत्यविरोध इति ॥ ९ ॥