तत्र प्रतिज्ञाभागं विभजते -
न खल्विति ।
कारणशून्यत्वं विशदीकुर्वन्प्रश्नपूर्वकं सौत्रं हेतुमादत्ते -
कस्मादिति ।
ब्रह्मणो हि कार्यत्वं ब्रुवता सन्मात्रं वा सद्विशेषो वा तस्यासद्वा कारणमिति वक्तव्यम् । नाद्य इत्याह -
सन्मात्रं हीति ।
न द्वितीय इत्याह -
नापीति ।
दृष्टविपर्ययमेव साधयति -
सामान्यादिति ।
न तृतीय इत्याह -
नापीति ।
श्रुतिविरोधाच्चायं पक्षो न सम्भवतीत्याह -
कथमिति ।
युक्त्या हेतुमुपपाद्य श्रुत्योपपादयति -
स कारणमिति ।
यदुक्तं वियत्पवनयोरसम्भाव्यमानजन्मनोरपीत्यादि, तत्राह -
वियदिति ।
विभक्तत्वमुत्पत्तावुपपत्तिः । ब्रह्मण्यपि तुल्यं विभक्तत्वमित्याशङ्क्य ब्रह्मत्वविरोधान्मैवमित्याह -
न त्विति ।
यत्तु तथेत्यादावनुमानमुक्तं तद्दूषयति -
नचेति ।
तस्य कार्यत्वं वदता मूलप्रकृतिरुपगम्यते न वेति विकल्प्य द्वितीयं प्रत्याह -
मूलेति ।
नचानादित्वान्नानवस्था, ब्रह्मणोऽपि कार्यत्वे तत्तदुपादानपरम्परायौगपद्ये प्रलयाभावप्रसङ्गादिति भावः ।
प्रथमे तुल्यबाधापत्तिरित्याशयेनाह -
या मूलेति ।
एवं कार्यत्वानुमानस्याभासत्वाज्जन्मश्रुतेश्चौपाधिकविषयत्वादकार्यत्वानुमानानुगृहीताजत्वश्रुतेर्बलीयस्त्वादितरस्यास्तदनुरोधित्वादितरेतराविरोधान्नित्याद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयः सम्भवतीत्युपसंहरति -
इत्यविरोध इति ॥ ९ ॥