ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
आपः ॥ ११ ॥
अतस्तथा ह्याहइत्यनुवर्ततेआपः, अतः तेजसः, जायन्तेकस्मात् ? तथा ह्याह — ‘तदपोऽसृजतइति, ‘अग्नेरापःइति सति वचने नास्ति संशयःतेजसस्तु सृष्टिं व्याख्याय पृथिव्या व्याख्यास्यन् , अपोऽन्तरयामितिआपःइति सूत्रयांबभूव ॥ ११ ॥

तेजसो वायुकार्यत्वमुक्त्वाऽनन्तरनिर्दिष्टानामपां तेजसो जन्मातिदेशेन निरूपयति -

आप इति ।