मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
आपः ॥ ११ ॥
‘
अत
स्तथा
ह्याह
’
इत्यनुवर्तते
।
आपः
,
अतः
तेजसः
,
जायन्ते
।
कस्मात्
?
तथा
ह्याह
— ‘
तदपोऽसृजत
’
इति
, ‘
अग्नेरापः
’
इति
च
।
सति
वचने
नास्ति
संशयः
।
तेजसस्तु
सृष्टिं
व्याख्याय
पृथिव्या
व्याख्यास्यन्
,
अपोऽन्तरयामिति
‘
आपः
’
इति
सूत्रयांबभूव
॥ ११ ॥
आप इति
;
तेजसो वायुकार्यत्वमुक्त्वाऽनन्तरनिर्दिष्टानामपां तेजसो जन्मातिदेशेन निरूपयति -
आप इति ।