वाक्यं हि सूत्रं न पदमात्रं तत्कुतोऽस्य सूत्रतेत्याशङ्क्य सूत्रं पूरयति -
अत इति ।
‘एतस्माज्जायते’ इत्युपक्रम्य ‘खं वायुर्ज्योतिरापः’ इति ‘अग्नेरापः’ इति ‘तदपोऽसृजत’ इति च श्रूयते । तत्र किमापः सतो जायन्ते किंवा तेजस इति श्रुतिविप्रतिपत्तेः सन्देहे सत्यपामग्निदाह्यत्वादग्नेरुत्पत्त्ययोगात् ‘अग्नेरापः’ ‘तदपोऽसृजत’ इति च श्रुती गौण्यावन्यथाऽथर्वणश्रुतिविरोधान्न ब्रह्मणि समन्वयसिद्धिरिति पूर्वपक्षे सिद्धान्तमाह -
आपोऽत इति ।
अपां कारणत्वे तेजसः श्रुतेऽपि प्रत्यक्षविरोधान्निश्चयासिद्धिरित्याशङ्क्याह -
सतीति ।
त्रिवृत्कृतयोरप्तेजसोर्विरोधेऽपि तयोरत्रिवृत्कृतयोरतीन्द्रियत्वाद्विरोधाप्रतीतेर्वचने सति निश्चयोपपत्तिरित्यर्थः ।
सन्देहाभावे विचारस्य निरवकाशत्वात्कथमिदं सूत्रमित्याशङ्क्याह -
तेजसस्त्विति ।
महाभूतसर्गव्याख्याने प्रक्रान्ते क्रमप्राप्तानामपामतिक्रमणं मा भूदित्यभिप्रेत्य प्रत्यक्षविरोधात् । ‘आप एवाग्र आसुः’ इति च पूर्वसद्भावश्रवणादाथर्वणश्रुतेश्च ‘अग्नेरापः’ इत्याद्या श्रुतिर्गौणीति मन्दाशङ्कां निरसितुमिदं सूत्रम् । पूर्ववत्क्रमश्रुत्यनुरोधेनाक्रमश्रुतेर्नेतव्यत्वात्पूर्वसद्भावश्रुतेश्च भूतसूक्ष्ममात्रविषयत्वेनाविरोधात्तेजोभावमापन्ने ब्रह्मण्यपां कारणे ‘तदपोऽसृजत’ इत्यादिश्रुतेः समन्वयसिद्धौ न गौणार्थतेति भावः । तत्र च तैत्तिरीयादिश्रुतेराथर्वणादिश्रुतेश्च मिथोविरोधनिराकरणद्वारा ब्रह्मण्येवाबादिकारणे समन्वयप्रतिपादनात्पादादिसङ्गतिस्तथैव फलभेदश्चेति द्रष्टव्यम् ॥ ११ ॥