ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्ति, आहोस्वित्परमेश्वर एव तेन तेन आत्मनावतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति सन्देहे सति, प्राप्तं तावत्स्वयमेव सृजन्तीतिकुतः ? आकाशाद्वायुर्वायोरग्निः’ (तै. उ. २ । १ । १) इत्यादिस्वातन्त्र्यश्रवणात्ननु अचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा; नैष दोषःतत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति भूतानामपि चेतनत्वश्रवणादिति

विषयप्रदर्शनपूर्वकमाकाशादिशब्दानां चेतनाचेतनविषयत्वाभ्यां सन्देहमुक्त्वा पूर्वपक्षं गृह्णाति -

किमिमानीति ।

अत्र च भूतसृष्टत्वश्रुतेर्ब्रह्मस्रष्टृत्वश्रुतेश्च विरोधनिराकरणद्वारेण सर्वस्रष्टरि ब्रह्मणि समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे श्रुत्योर्विरोधादनेकवाक्यत्वान्न तत्र ब्रह्मणि समन्वयः । सिद्धान्ते तु तयोरेकवाक्यतयाऽविरोधात्प्रामाण्यात्तत्सिद्धिः । ‘आकाशादेव समुत्पद्यन्ते’ इत्येवकारश्रुत्या ब्रह्मणः स्वतान्त्र्ये समधिगते भूतस्वतन्त्र्यमयुक्तमिति शङ्कते -

कुत इति ।

मूलकारणत्वापेक्षया ब्रह्मणः स्वातन्त्र्यश्रवणमित्याशयवानाह -

आकाशादिति ।

पूर्वपक्षमाक्षिपति -

नन्विति ।

आकाशादिशब्दैराकाशाद्यभिमानिनीनां देवतानां मनुष्यादिशब्दैरिव तदभिमानिनां जीवानां विवक्षितत्वात् , पञ्चमीनां च निमित्तार्थत्वात् , आकाशाद्यात्मनेश्वरस्य वाय्वाद्युपादानत्ववत्तदभिमानिदेवतात्मनाधिष्ठातृत्वं चाविरुद्धमिति परिहरति -

नैष दोष इति ।

भूतानामपीति भूताभिमानिदेवताभिप्रायम् ।