विषयप्रदर्शनपूर्वकमाकाशादिशब्दानां चेतनाचेतनविषयत्वाभ्यां सन्देहमुक्त्वा पूर्वपक्षं गृह्णाति -
किमिमानीति ।
अत्र च भूतसृष्टत्वश्रुतेर्ब्रह्मस्रष्टृत्वश्रुतेश्च विरोधनिराकरणद्वारेण सर्वस्रष्टरि ब्रह्मणि समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे श्रुत्योर्विरोधादनेकवाक्यत्वान्न तत्र ब्रह्मणि समन्वयः । सिद्धान्ते तु तयोरेकवाक्यतयाऽविरोधात्प्रामाण्यात्तत्सिद्धिः । ‘आकाशादेव समुत्पद्यन्ते’ इत्येवकारश्रुत्या ब्रह्मणः स्वतान्त्र्ये समधिगते भूतस्वतन्त्र्यमयुक्तमिति शङ्कते -
कुत इति ।
मूलकारणत्वापेक्षया ब्रह्मणः स्वातन्त्र्यश्रवणमित्याशयवानाह -
आकाशादिति ।
पूर्वपक्षमाक्षिपति -
नन्विति ।
आकाशादिशब्दैराकाशाद्यभिमानिनीनां देवतानां मनुष्यादिशब्दैरिव तदभिमानिनां जीवानां विवक्षितत्वात् , पञ्चमीनां च निमित्तार्थत्वात् , आकाशाद्यात्मनेश्वरस्य वाय्वाद्युपादानत्ववत्तदभिमानिदेवतात्मनाधिष्ठातृत्वं चाविरुद्धमिति परिहरति -
नैष दोष इति ।
भूतानामपीति भूताभिमानिदेवताभिप्रायम् ।