यद्यप्यत्र श्रुतिविप्रतिषेधो न साक्षात्परिह्नियते तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थत्वाद्विचार्यत इति प्रासङ्गिकी सङ्गतिरित्यभिप्रेत्याह -
भूतानामिति ।
वस्तुतस्तु सर्वप्रलयाधारब्रह्मसमन्वयस्य कारणनाशात्कार्यनाश इति न्यायानुगृहीतसृष्टिक्रमश्रुतिविरोधो निरस्यत इति सङ्गतयः । पूर्वपक्षे भूतलयस्य श्रौतसंनिहितक्रमलाभादशेषलयाधारब्रह्मसमन्वयस्य न्यायोपेतसृष्टिक्रमविरोधादसिद्धिः । सिद्धान्ते लोकानुरोधिन्याः श्रुतेः श्रुतिसंनिहितादपि लौकिकक्रमस्य संनिहिततरत्वात्तेन तद्बाधकतेत्युक्ते् ब्रह्मणि तत्सिद्धिः ।
‘अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ’ इत्यादौ कार्यलिङ्गकानुमानप्रदर्शनात् , ‘यत्प्रयन्ति’ इत्यादौ च लयमात्रश्रवणेऽपि क्रमस्याश्रुतत्वात् , आकाङ्क्षायाश्च द्विधाऽपि शान्तेश्चिन्ताप्रकारमेवाभिनयति -
किमनियतेनेति ।
सति प्रलये क्रमश्चिन्तनीयः, स एव नास्तीति केचित् , तान्प्रत्याह -
त्रयोऽपीति ।
उपक्रममात्रेण पूर्वपक्षमाह -
तत्रेति ।
श्रुतोत्पत्तिक्रमादेव नियमे सत्यनियमो न युक्तिमानित्याशङ्क्य पक्षान्तरमाह -
अथवेति ।
महाभूतप्रलयोऽपि क्रममपेक्षते, तदुत्पत्तिप्रलययोरन्यतरत्वात् , तदुत्पत्तिवदित्यभिप्रेत्याह -
क्रमाकाङ्क्षिण इति ।
तथाचासौ श्रौतसंनिहितक्रमवान्न स्मार्तं व्यवहितं क्रममवलम्बते । तस्य बहिरङ्गत्वादिति भावः ।