ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥
एवं प्राप्तं ततो ब्रूमः — विपर्ययेण तु प्रलयक्रमः, अतः उत्पत्तिक्रमात् , भवितुमर्हति । तथा हि लोके दृश्यते — येन क्रमेण सोपानमारूढः, ततो विपरीतेन क्रमेणावरोहतीति । अपि च दृश्यते — मृदो जातं घटशरावादि अप्ययकाले मृद्भावमप्येति, अद्भ्यश्च जातं हिमकरकादि अब्भावमप्येतीति । अतश्चोपपद्यत एतत् — यत्पृथिवी अद्भ्यो जाता सती स्थितिकालव्यतिक्रान्तौ अपः अपीयात् । आपश्च तेजसो जाताः सत्यः तेजः अपीयुः । एवं क्रमेण सूक्ष्मं सूक्ष्मतरं च अनन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रह्माप्येतीति वेदितव्यम् । न हि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यः । स्मृतावप्युत्पत्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः — ‘जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते’ इत्येवमादौ । उत्पत्तिक्रमस्तु उत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति; न च असौ अयोग्यत्वादप्ययेनाकाङ्क्ष्यते । न हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः, कारणाप्यये कार्यस्यावस्थानानुपपत्तेः । कार्याप्यये तु कारणस्यावस्थानं युक्तम् — मृदादिष्वेवं दृष्टत्वात् ॥ १४ ॥

महाभूतानामुत्पत्तिक्रमेण प्रलये क्रमवति सति सर्वप्रलयाधारे ब्रह्मणि समन्वयो न्यायानुगृहीतसृष्टिक्रमश्रुतिविरुद्धो न सिध्यतीत्युपसंहरति -

एवमिति ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

तत इति ।

लोकदृष्टपदार्थबोधाधीना हि श्रुतिः । अतः श्रुतिसंनिहितादपि लौकिकक्रमस्य संनिहिततरत्वात्तेन तद्बाधनं युक्तमित्युपपद्यत इति सूत्रावयवं व्याचष्टे -

तथाहीति ।

चकारसूचितमुपपत्त्यन्तरमाह -

अपिचेति ।

सत्यपीत्थं लौकिके दर्शने प्रकृते किमायातमित्याशङ्क्य फलपरत्वेनापि सूत्रावयवं योजयति -

अतश्चेति ।

पृथिव्यादीनामबादौ लयश्चेद्ब्रह्मणः सर्वकार्यलयाधारत्वं कथमित्याशङ्क्य तत्तत्कारणात्मके ब्रह्मणि तत्तत्कार्यलयाभ्युपगमात्तत्रैव पर्यवसानमिति मत्वाऽऽह -

एवं क्रमेणेति ।

पारम्पर्यं परित्यज्य साक्षाद्ब्रह्मणि सर्वकार्यलयाभ्युपगमो बलीयानित्याशङ्क्याह -

नहीति ।

घटादेर्मृत्कार्यस्य परमाणुषु लयानभ्युपगमात् । अन्यथा घटादिनाशे परमाणूनामतीन्द्रियत्वान्न किञ्चिदुपलभ्येतेति भावः ।

लौकिकन्यायवशादुत्पत्तिक्रमविपरीतं प्रलयक्रमं प्रदर्श्य तत्रैव स्मृतिं संवादयति -

स्मृतावपीति ।

‘वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्रलीयते’ इति वाक्यमादिशब्दार्थः ।

स्मार्तकमाल्लौकिकन्यायाच्च श्रौतक्रमस्य संनिकृष्टत्वादाकाङ्क्षासंनिधिभ्यां तस्यैवोपादेयत्वमित्याशङ्क्य योग्यत्वाभावान्मैवमित्याह -

उत्पत्तीति ।

आकाङ्क्षापि तत्र नास्तीत्याह -

नचेति ।

अयोग्यविषयाभ्यामाकाङ्क्षासंनिधिभ्यां विप्रकृष्टविषयेऽप्याकाङ्क्षायोग्यत्वे बलवत्तरे सम्बन्धस्य योग्यतानिमित्तत्वादिति भावः ।

अयोग्यत्वादित्युक्तं साधयति -

नहीति ।

कार्यकारणयोरभेदे कार्याभावे कारणवत्तदभावेऽपि कार्यं स्यादित्याशङ्क्याह -

कार्येति ।

तदेवं ब्रह्मणः सर्वप्रलयाधारत्वात्तत्र समन्वयस्य ‘कारणनाशात्कार्यनाश’ इति न्यायानुगृहीतसृष्टिक्रमश्रुत्या न विरोधोऽस्तीति सिद्धमिति भावः ॥ १४ ॥