भूतोत्पत्तिप्रलयक्रमो विषयः । स किं करणसृष्टिक्रमेण बाध्यते न वेति करणानां भौतिकत्वाभौतिकत्वाभ्यां सन्देहे पूर्वपक्षयितुं वृत्तं कीर्तयति -
भूतानामिति ।
उक्तोत्पत्तिप्रलयक्रमस्य विरोधद्योतनार्थमुक्तमर्थान्तरमनुद्रवति -
आत्मादिरिति ।
अत्र च क्रमवद्भूतोत्पत्तिप्रलयाधारे ब्रह्मणि समन्वयस्य करणसृष्टिश्रुत्या विरोधपरिहारद्वारा दृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे करणसर्गश्रुतिविरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।
देहप्रदेशातिरिक्तेद्नियाभावात्कथं यथोक्तः सन्देहः स्यादित्याशङ्क्याह -
सेन्द्रियस्येति ।
श्रुतिस्मृत्योरुक्ता प्रसिद्धिः । तत्र श्रुतिमुदाहरति -
बुद्धिं त्विति ।
‘इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिः‘ इत्याद्या स्मृतिरुदाहर्तव्या । करणानां सत्त्वेऽपि तेषामाहङ्कारिकत्वात्तदुत्पत्तिक्रमेण कुतो भूतोत्पत्त्यादिक्रमस्य विरोधाशङ्केत्याशङ्काह -
तयोरिति ।
तेषामाहङ्कारिकत्वे मानाभावाद्ब्रह्मजत्वस्यावश्यकत्वे तत्कार्येष्वेव कस्मिश्चिदन्तराले बुद्धिसेन्द्रियमनसोरुत्पत्तिलयौ ग्राह्यावित्यर्थः ।
तथापि भूतोत्पत्त्यनन्तरं तदुत्पत्त्यङ्गीकारतया भूतोत्पत्त्यादिक्रमस्याविरुद्धतेत्याशङ्क्य क्रमाकाङ्क्षायां करणोत्पत्तेः श्रुत्यन्तरसिद्धक्रमसिद्धेर्विरोधोऽस्तीत्याह -
अपि चेति ।
अन्नमयश्रुतौ करणानां भौतिकत्वे सिद्धे भूतानन्तर्यं तेषामित्याशङ्क्य ‘आपोमयः प्राणः’ इत्यत्र तद्विकारत्वाभाववदिहापि तद्विकारत्वाभावात्करणोत्पत्तिश्रुत्या क्रमवद्भूतोत्पत्त्यादिश्रुतेर्विरोधोऽस्तीत्युपसंहरति -
तस्मादिति ।
सिद्धान्तमादत्ते -
नेति ।
इन्द्रियाणामुत्पत्तिक्रमस्य भूतोत्पत्त्यादिक्रमविरुद्धविशेषासिद्धेर्न विरोधोऽस्तीत्यर्थः ।
किं भौतिकत्वं करणानामुताभौतिकत्वम् । आद्यं प्रत्याह -
यदीति ।
द्वितीयं दूषयति -
भवतीति ।
न चापोमय इतिवन्मयटो न विकारार्थता करणानां विभक्तत्वात्कार्यत्वे कारणापेक्षायामन्नमयमित्यादिश्रुतेरपेक्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वादिति भावः ।
भौतिकत्वे करणानां भूतानन्तरं तदुत्पत्तेर्न पृथक्तद्व्यपदेशः स्यादित्याशङ्क्याह -
व्यपदेशोऽपीति ।
क्वचिदित्याथर्वणं वाक्यमुक्तम् । प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि ब्रवीति -
अथ त्विति ।
अभौतिकत्वेऽपि पूर्वोत्तरत्वेन विशेषणविशेष्यत्वे मानाभावाद्भूतोत्पत्तिक्रमो न करणक्रमेण विरुध्यत इत्यर्थः ।
ननु यथा ‘समिधो यजति’ इत्यादौ पाठक्रम एवानुष्ठानक्रमे मानं तथैतस्मादित्यादिपाठक्रमेणैवादौ करणान्युत्पद्यन्ते पश्चाद्भूतानीत्यत्र मानं, नेत्याह -
आथर्वणेति ।
तत्र तेषां क्रममात्रमाम्नायोत्पत्तिरुक्तेति योजना । श्रुत्यर्थाविरुद्धोहि पाठोऽनुष्ठाने मानम् , इह तु ‘आत्मन आकाशः’ इत्यादिश्रुत्यर्थविरोधादग्निहोत्रहोमयवागूपाकवत्पाठक्रमभङ्गेन भूतानन्तरं करणोत्पत्तिरित्यर्थः ।
करणानां भूतानां चैककार्यत्वे क्रमाकाङ्क्षायां पूर्वविशिष्टस्यैवोत्तरजनकत्वात्करणप्राथम्यमित्याशङ्क्य भिन्नपरिकरत्वान्मैवमित्याह -
तथेति ।
प्रजापतिः सर्वभूतसूक्ष्मात्मकः सूत्रात्मा । स्थूलं कार्यमिदमुच्यते । तदुत्पत्तिप्राक्कालोऽग्रशब्दार्थः । अत्र प्रजापतिसृष्टिवचनाद्भूतसृष्टिप्राथम्यं, ततश्च मनआदिसृष्टिरुक्तेति करणसर्गस्य पाश्चात्यत्वमिति विवेकः ।
भूतकरणोत्पत्त्योरेवं सिद्धे क्रमे क्रमवद्भूतोत्पत्तिलयाधारे ब्रह्मणि समन्वयस्य करणोत्पत्तिश्रुत्या विरोधो नेत्युपसंहरति -
तस्मादिति ॥ १५ ॥