ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ १६ ॥
स्तो जीवस्याप्युत्पत्तिप्रलयौ, जातो देवदत्तो मृतो देवदत्त इत्येवंजातीयकाल्लौकिकव्यपदेशात् जातकर्मादिसंस्कारविधानाच्चइति स्यात्कस्यचिद्भ्रान्तिःतामपनुदामः जीवस्योत्पत्तिप्रलयौ स्तः, शास्त्रफलसम्बन्धोपपत्तेःशरीरानुविनाशिनि हि जीवे शरीरान्तरगतेष्टानिष्टप्राप्तिपरिहारार्थौ विधिप्रतिषेधावनर्थकौ स्याताम्श्रूयते जीवापेतं वाव किलेदं म्रियते जीवो म्रियते’ (छा. उ. ६ । ११ । ३) इतिननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शितःसत्यं दर्शितःभाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशःकिमाश्रयः पुनरयं मुख्यः, यदपेक्षया भाक्त इति ? उच्यतेचराचरव्यपाश्रयःस्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौस्थावरजङ्गमानि हि भूतानि जायन्ते म्रियन्ते अतस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्येते, तद्भावभावित्वात्शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतः, नासतोः हि शरीरसम्बन्धादन्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः उत्क्रामन् म्रियमाणः’ (बृ. उ. ४ । ३ । ८) इति शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशब्दौ दर्शयतिजातकर्मादिविधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम् , अभावाज्जीवप्रादुर्भावस्यजीवस्य परस्मादात्मन उत्पत्तिर्वियदादीनामिवास्ति नास्ति वेत्येतदुत्तरेण सूत्रेण वक्ष्यतिदेहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ स्तः इत्येतदनेन सूत्रेणावोचत् ॥ १६ ॥

पूर्वाधिकरणेषु तत्पदार्थकारणत्वसिद्ध्यै भूतोत्पत्तिश्रुतिविरोधो निरस्तः । संप्रत्यापादसमाप्तेस्त्वम्पदार्थशुद्ध्यै जीवविषयश्रुतिविरोधो निरस्यते । तत्र करणोत्पत्तिश्चेन्न भूतोत्पत्तिक्रममन्यथयति तर्हि जीवोत्पत्तिस्तदन्यथयेदित्याशङ्क्य सैव नास्तीत्याह -

चराचरेति ।

इह जीवजनिमृतिनिमित्तवैश्वानरीयेष्ट्यादिशास्त्राणां तन्नित्यत्वशास्त्राणां चाविरोधद्वारा नित्यसिद्धप्रत्यग्ब्रह्मणि समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे शास्त्रद्वयविरोधात्तादृग्ब्रह्मसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।