ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ १६ ॥
स्तो जीवस्याप्युत्पत्तिप्रलयौ, जातो देवदत्तो मृतो देवदत्त इत्येवंजातीयकाल्लौकिकव्यपदेशात् जातकर्मादिसंस्कारविधानाच्च — इति स्यात्कस्यचिद्भ्रान्तिः । तामपनुदामः । न जीवस्योत्पत्तिप्रलयौ स्तः, शास्त्रफलसम्बन्धोपपत्तेः । शरीरानुविनाशिनि हि जीवे शरीरान्तरगतेष्टानिष्टप्राप्तिपरिहारार्थौ विधिप्रतिषेधावनर्थकौ स्याताम् । श्रूयते च — ‘जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते’ (छा. उ. ६ । ११ । ३) इति । ननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शितः । सत्यं दर्शितः । भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः । किमाश्रयः पुनरयं मुख्यः, यदपेक्षया भाक्त इति ? उच्यते — चराचरव्यपाश्रयः । स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ । स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते च । अतस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्येते, तद्भावभावित्वात् — शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतः, नासतोः । न हि शरीरसम्बन्धादन्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते । ‘स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः स उत्क्रामन् म्रियमाणः’ (बृ. उ. ४ । ३ । ८) इति च शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशब्दौ दर्शयति । जातकर्मादिविधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम् , अभावाज्जीवप्रादुर्भावस्य । जीवस्य परस्मादात्मन उत्पत्तिर्वियदादीनामिवास्ति नास्ति वेत्येतदुत्तरेण सूत्रेण वक्ष्यति । देहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्तः इत्येतदनेन सूत्रेणावोचत् ॥ १६ ॥

जीवो विषयः, तस्य किं देहोत्पादनाशयोरनौपाधिकमुत्पत्त्यादि न वेति श्रुतिविप्रतिपत्तेः सन्देहे पूर्वपक्षमाह -

स्त इति ।

देहगामित्वादयं व्यपदेशो न जीवजन्मादि साधयेदित्याशङ्क्य चेतनोद्देशेन जातकर्मादिविधानादयमपि व्यपदेशो न देहमात्रगामीत्याह -

जातेति ।

न चोपाध्यपरामर्शादौपाधिकौ तस्य जन्मनाशौ, नापि देहस्य संस्कारविधिः, पुरुषविषयत्वेन प्रसिद्धत्वात् , अतो जीवस्यानौपाधिकोत्पत्तिनाशसिद्धेरजामृतप्रत्यग्ब्रह्मसमन्वयासिद्धिरित्याह -

इति स्यादिति ।

उत्सूत्रं सिद्धान्तमाह -

तामिति ।

उपपत्तिमेव दर्शयति -

शरीरेति ।

उद्देश्योपादेययोर्मिथो विरोधे सत्युपादेयजन्मान्तरफलसाधनविधिविरोधिनोरुद्देश्यच्चेतनजन्ममरणयोर्देहोपाधित्वेनोपचरितत्वाज्जन्मान्तरसाधनकर्मसम्बन्धयोग्यो जन्ममृतिरहितः सन्नात्मा सिध्यतीत्यर्थः ।

आत्मनो जन्माद्यभाव एव शास्त्रीयस्वर्गादिसम्बन्धसिद्धिस्तदन्यथानुपपत्त्या नित्यत्वं तस्येत्युक्तम् । इदानीं श्रुतिसिद्धं चैतदित्याह -

श्रूयते चेति ।

जीवेनापेतं त्यक्तम् । वाव किलेत्यवधारणार्थौ निपातौ । जीवो न म्रियत एवेत्यर्थः ।

पूर्वपक्षबीजमनुभाषते -

नन्विति ।

तदुत्तरत्वेन सूत्रं पातयितुं योजनिकामाह -

सत्यमिति ।

भाक्तो व्यपदेशो मुख्यापेक्षीति मत्वा पृच्छति -

किमिति ।

तत्र सूत्रमवतार्य व्याकरोति -

उच्यत इति ।

तयोस्तद्विषयत्वेन मुख्यत्वे हेतुमाह -

स्थावरेति ।

उपचारे कारणमाह -

तदिति ।

देहगामित्वेन जन्मादिशब्दस्य मुख्यत्वे सौत्रं हेतुमादाय व्याचष्टे -

तदिति ।

देहयोगमनपेक्ष्य साक्षादेव जीवगतौ जन्मनाशशब्दौ किं न स्यातां, तत्राह -

नहीति ।

न केवलमन्वयव्यतिरेकाभ्यामयमर्थोऽवगम्यते किन्तु श्रूत्यापीत्याह -

स वा इति ।

कथं नित्यस्य जायमानत्वं, तत्राह -

शरीरमिति ।

कथं म्रियमाणत्वं, तत्राह -

उत्क्रामन्निति ।

श्रुतेस्तात्पर्यमाह -

शरीरेति ।

यत्तु जातकर्मादिविधानाज्जीवस्यानौपाधिकौ जन्मनाशाविति तत्राह -

जातेति ।

पूर्वोत्तराधिकरणयोरेकार्थतया पौनरुक्त्यमाशङ्क्यार्थभेदमाह -

जीवस्येति ।

तदेवमात्मनो देहोत्पत्त्यादावनौपाधिकोत्पत्त्याद्यभावाज्जातेष्ट्यादिशास्त्राणामौपाधिकतद्विषयत्वादात्मनित्यत्वशास्त्राणां मुख्यार्थत्वादनाद्यनन्तप्रत्यग्ब्रह्मसमन्वयसिद्धिरिति भावः ॥ १६ ॥