अधिकरणविषयमाह -
अस्तीति ।
‘असम्भवस्तु’ इत्यत्र ब्रह्मजन्मनिषेधात्तदभिन्नजीवजन्माशङ्का निरवकाशेत्याशङ्क्याह -
जीवेति ।
शरीरादेरेव सप्राणस्य जीवत्वमिति प्राकृताः, तान्प्रत्याह -
शरीरेति ।
‘कर्माध्यक्षः', ‘साक्षी’ इत्यादिश्रुतेरीश्वरत्वादस्य कुतो जीवत्वं, तत्रोक्तम् -
कर्मेति ।
विषयं विविच्य सहेतुं संशयमाह -
स इति ।
श्रुतिविप्रतिपत्तिं विशदयति -
कासुचिदिति ।
‘यथा सुदीप्तात्पावकात्’ इत्याद्या जीवोत्पत्तिवादिन्यः श्रुतयः ।
कासुचिदिति ।
‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इत्याद्यास्वित्यर्थः ।
प्रवेशवाक्येऽपि जन्मधीरस्तीत्याशङ्क्याह -
नचेति ।
श्रुतिविप्रतिपत्त्या संशयमुक्त्वा पूर्वपक्षयति -
तत्रेति ।
अत्र चोक्तश्रुतिविप्रतिपत्तिनिरासेन समन्वयदृढीकरणात्पादादिसङ्गतयः । पूर्वपक्षे श्रुतीनां विप्रतिपत्तेरनेकवाक्यत्वेन विरोधादप्रामाण्ये समन्वयासिद्धिः । सिद्धान्ते श्रूतीनामविप्रतिपत्तेरेकवाक्यत्वादविरोधे नित्ये प्रत्यग्ब्रह्मणि समन्वयसिद्धिः ।
जन्मप्रयोजकजाड्यविशेषत्वविरहान्नोत्पत्तिरित्याह -
कुत इति ।
आत्मनस्तद्विरहे विवदमानो वियदुत्पत्तिन्यायेन प्रत्याह -
प्रतिज्ञेति ।
तदनुपरोधं साधयति -
एकस्मिन्निति ।
अकार्यत्वेऽपि प्रतिज्ञासिद्धिश्चेत्किं तत्कार्यत्वेनेत्याशङ्क्य तस्य परस्माद्भिन्नत्वमभिन्नत्वं वेति विकल्प्याद्यं दूषयति -
तत्त्वान्तरत्वे त्विति ।
द्वितीयं निरस्यति -
नचेति ।
लक्षणभेदं साधयति -
अपहतेति ।
नित्यत्वश्रुतिविरोधमाशङ्क्यानुमानानुगृहीतानित्यत्वश्रुतिविरोधात्तासामुपचरितार्थतेति मत्वाह -
विभागाच्चेति ।
तत्त्वमस्यादिवाक्यापेक्षितार्थावेदकत्वान्नित्यत्वश्रुतीनां नोपचरितार्थतेत्याशङ्क्य नित्यानित्ययोरपि कार्यकारणयोर्मृद्धटवत्तादात्म्यसम्भवादविरुद्धं महावाक्यमित्यभिप्रेत्यानित्यत्वश्रुत्यनुग्राहकानुमानाङ्गव्याप्तिमाह -
यावानिति ।
आकाशादेर्विभक्तत्वेऽपि विकारत्वासिद्धेरसिद्धा व्याप्तिरित्याशङ्क्याह -
तस्येति ।
व्याप्तस्य हेतोः पक्षधर्मतामाह -
जीवेति ।
प्रतिदेहमात्मविभागे कर्मतत्फलव्यवस्थानुपपत्तिं प्रमाणयितुं विशेषेण व्याप्तिं पक्षधर्मतां चोक्त्वानुमानमाह -
तस्येति ।
यदनुग्राहकमनुमानमुक्तं तां श्रुतिमाह -
अपिचेति ।
जीवस्य मुख्योत्पत्तिरत्र नेष्टेत्याशङ्क्य प्राणादीनां तथोत्पत्तिदृष्टेः समभिव्याहाराज्जीवस्यापि तादृश्येव सेति मत्वाह -
प्राणादेरिति ।
किञ्चौपाधिकं जन्म चेदुपाधेरेव तद्वाच्यं नोभयोरित्याशयेनाह -
सर्व एव इति ।
जन्ममात्रार्थां श्रुतिमुक्त्वा जन्मनाशार्थं श्रुत्यन्तरमाह -
यथेति ।
भावानामेवोत्पत्तिलयावत्रोक्तौ न जीवानामित्याशङ्क्याह -
सरूपेति ।
भावशब्दो जीववाचीति शेषः ।
अन्यत्रापि सत्त्वेन सारूप्यमाशङ्क्याह -
जीवेति ।
भूतोत्पत्त्यधिकारे जीवोत्पत्तेरश्रवणान्न तदुत्पत्तिरित्याशङ्क्याह -
न चेति ।
तत्र तार्तीयन्यायेन हेतुमाह -
श्रुत्यन्तरेति ।
जीवोत्पत्तौ परस्यैव कथं प्रवेशश्रवणमित्याशङ्क्याह -
प्रवेशेति ।
यथा मृदादि स्वविकारे घटादौ चूर्णादिविकारान्तरेण प्रविशति तथा ब्रह्म शरीरं सृष्ट्वा जीवाख्यविकारेण प्रविष्टमित्यर्थः ।
ब्रह्मणो विकारोत्पत्तौ दृष्टान्तमाह -
तदिति ।
अनुमानानुगृहीतश्रुतिफलमाह -
तस्मादिति ।