ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥
एवं प्राप्ते, ब्रूमःनात्मा जीव उत्पद्यत इतिकस्मात् ? अश्रुतेः; ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयःसु प्रदेशेषुननु क्वचिदश्रवणमन्यत्र श्रुतं वारयतीत्युक्तम्; सत्यमुक्तम्; उत्पत्तिरेव त्वस्य सम्भवतीति वदामःकस्मात् ? नित्यत्वाच्च ताभ्यःचशब्दादजत्वादिभ्यश्चनित्यत्वं ह्यस्य श्रुतिभ्योऽवगम्यते, तथा अजत्वम् अविकारित्वम् अविकृतस्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति चैवंरूपस्योत्पत्तिरुपपद्यतेताः काः श्रुतयः ? जीवो म्रियते’ (छा. उ. ६ । ११ । ३) वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) अजो नित्यः शाश्वतोऽयं पुराणः’ (क. उ. १ । २ । १८) तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) एष इह प्रविष्ट नखाग्रेभ्यः’ (बृ. उ. १ । ४ । ७) तत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इत्येवमाद्या नित्यत्ववादिन्यः सत्यः जीवस्योत्पत्तिं प्रतिबध्नन्तिननु प्रविभक्तत्वाद्विकारः, विकारत्वाच्चोत्पद्यतेइत्युक्तम्; अत्रोच्यतेनास्य प्रविभागः स्वतोऽस्ति, एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इति श्रुतेःबुद्ध्याद्युपाधिनिमित्तं तु अस्य प्रविभागप्रतिभानम् , आकाशस्येव घटादिसम्बन्धनिमित्तम्तथा शास्त्रम् वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः’ (बृ. उ. ४ । ४ । ५) इत्येवमादि ब्रह्मण एवाविकृतस्य सतोऽस्यैकस्यानेकबुद्ध्यादिमयत्वं दर्शयतितन्मयत्वं अस्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वम्स्त्रीमयो जाल्म इत्यादिवत्द्रष्टव्यम्यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणम् , तदप्यत एवोपाधिसम्बन्धान्नेतव्यम्उपाध्युत्पत्त्या अस्योत्पत्तिः, तत्प्रलयेन प्रलय इतितथा दर्शयतिप्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति प्रेत्य संज्ञास्ति’ (बृ. उ. ४ । ५ । १३) इति; तथोपाधिप्रलय एवायम् , नात्मविलयःइत्येतदपि — ‘अत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि प्रेत्य संज्ञास्ति’ — इति प्रश्नपूर्वकं प्रतिपादयति वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्राऽसंसर्गस्त्वस्य भवति’ (बृ. उ. ४ । ५ । १४)इतिप्रतिज्ञानुपरोधोऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात्; लक्षणभेदोऽप्यनयोरुपाधिनिमित्त एव, अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४ । ३ । १५) इति प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात्तस्मात् नैवात्मोत्पद्यते प्रविलीयते वेति ॥ १७ ॥

जीवनित्यत्वानित्यत्वश्रुतीनां मुख्यत्वे मिथो विरोधादसिद्धिः समन्वयस्येति पूर्वपक्षमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां योजयति -

एवमिति ।

अनुमानोपेतश्रुत्या जीवोत्पत्तेरुक्तेरयुक्ता प्रतिज्ञेत्याह -

कस्मादिति ।

सौत्रं हेतुमुक्त्वा व्याकरोति -

अश्रुतेरिति ।

गुणोपसंहारन्यायेनोक्तं स्मारयति -

नन्विति ।

न्यायाधीनामुक्तिमङ्गीकृत्य जीवोत्पत्तिश्रुतेस्तदनुत्पत्तिश्रुत्या वारणान्नात्र न्यायोऽस्तीत्याह -

सत्यमिति ।

जीवजन्मायोगे प्रश्नपूर्वकं सौत्रं हेतुमाह -

कस्मादिति ।

हेतुद्वयं विवृणोति -

नित्यत्वं हीति ।

नित्यत्वाजत्वादिभानेऽपि जन्माभावो न भातीत्याशङ्क्याह -

न चेति ।

या नित्यत्वादिवादिन्यो जीवोत्पत्तिं न मृष्यन्ति ताः श्रुतीराकाङ्क्षाद्वारोदाहरति -

ताः का इति ।

उत्पत्तिश्रुतेरनुमानानुग्रहादनुत्पत्तिश्रुत्यपेक्षया प्राबल्यमुक्तं स्मारयति -

नन्विति ।

स्वाभाविकं वा विभक्तत्वमौपाधिकं वेति विकल्पयति -

अत्रेति ।

नाद्योऽसिद्धेरित्याह -

नेति ।

औपाधिकं विभक्तत्वमौपाधिकं स्वाभाविकं वा विकारमात्मनो गमयेत् । आद्ये सिद्धसाधनत्वं मत्वोक्तम् -

बुद्ध्यादीति ।

द्वितीये कालातीतत्वं विवक्षन्नौपाधिकं विभागभानमित्यत्र मानमाह -

तथा चेति ।

ब्रह्मविकारत्वं जीवस्य निरस्यता बुद्धिविकारत्वं तन्मयत्वोक्त्या स्वीकृतमित्याशङ्क्याह -

तन्मयत्वमिति ।

जाल्मो जडात्मा प्राकृतः पुरुषः । स यथा स्रीपरतन्त्रः स्त्रीमयो व्यपदिश्यते तथा जीवस्याप्रपञ्चपूर्णत्वाप्रतिपत्त्या बुद्ध्याद्युपरक्तपरिच्छिन्नरूपत्वं बुद्ध्यधीनमिति तन्मयत्वोक्तिरित्यर्थः ।

अनुग्राहकमनुमानमपोद्यानुग्राह्यश्रुतेर्गतिमाह -

यदपीति ।

अत एवेत्यस्य व्याख्यानम् -

उपाधीति ।

नयनमभिनयति -

उपाधीति ।

तत्र मैत्रेयीब्राह्मणं संवादयति -

तथाचेति ।

‘प्रज्ञानघन एव’ इत्युक्त्वा ‘न प्रेत्य संज्ञास्ति’ इति वदतो विरोधः स्यादित्याशङ्क्याह -

तथेति ।

पूर्वापरविरोधसमाधिद्वारेति यावत् ।

न प्रेत्येत्युक्तस्यायमिति परामर्शः । एतदपि प्रश्नपूर्वकं प्रतिपादयतीति सम्बन्धः । प्रश्नमनुक्रामति -

अत्रेति ।

मोहान्तं मोहमध्यमापीपददापादितवानिममित्यर्थनिर्देशः ।

प्रतिपादनप्रकारं प्रकटयति -

न वेति ।

मोहं मोहकरं वाक्यम् ।

अविनाशित्वे परिणामित्वाभावं हेतुमाह -

अनुच्छित्तीति ।

कथं तर्हि न प्रेत्येत्यादि, तत्राह -

मात्रेति ।

यत्तु प्रतिज्ञया ब्रह्मकार्यता जीवस्येति, तत्राह -

प्रतिज्ञेति ।

यत्तु लक्षणभेदान्नैक्यमिति, तत्राह -

लक्षणेति ।

बिम्बप्रतिबिम्बादिवदौपाधिको भेदो न स्वाभाविक इत्यत्र हेतुमाह -

अत इति ।

प्रधानवाक्येन फलवताऽऽक्षिप्तनित्यत्वबोधकावान्तरवाक्यनुरोधेन प्रधानवाक्यविरुद्धकार्यत्ववादिवाक्यानां दुर्बलत्वेनोपचरितार्थत्वान्मिथो विरोधाभावान्नित्यप्रत्यग्ब्रह्मसमन्वयसिद्धिरित्युपसंहरति -

तस्मादिति ॥ १७ ॥