ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
ज्ञोऽत एव ॥ १८ ॥

आत्मनो नित्यत्वमुक्त्वा तदनुत्पत्तिहेतोः स्वप्रकाशत्वमाह -

ज्ञ इति ।

अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति तत्स्वप्रकाशता । न चैवं गतार्थत्वमनुत्पन्नस्यापि जीवस्यानित्यज्ञानत्वश्रुत्या ब्रह्मान्यत्वशङ्कायां ब्रह्मैक्ययोग्यत्वायात्र जीवस्य स्वप्रकाशतोक्तेरिति भावः ।