विषयसंशयतत्कारणानि दर्शयति -
स इति ।
विमृश्य पूर्वपक्षं गृह्णाति -
किमिति ।
अत्र च ‘आत्मैवास्य ज्योतिः’ इत्यादिश्रुतीनां ‘पश्यंश्चक्षुः’ इत्यादिश्रुतिभिर्जीवानित्यधीत्ववादिनीभिर्विरोधसमाधानद्वारा चिद्रूपप्रत्यग्ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतयः । पूर्वपक्षे यथोक्तश्रुतीनां मिथो विरोधादनैकमत्यादप्रामाण्यादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तासामविरोधादेकवाक्यतया प्रामाण्यात्तत्र तत्सिद्धिः ।
आत्मनश्चेत् चैतन्यमागन्तुकं किं तर्हि तस्य कारणमागन्तुकस्य तदपेक्षत्वात्तत्राह -
आत्मेति ।
आत्मा कादाचित्कज्ञानः, तदर्थमादीयमानसाधनत्वात् , ईश्वरवदिति व्यतिरेकीत्यर्थः ।
समवाय्यसमवायिविषयं विशेषणं निमित्तं त्वदृष्टादि । आत्ममनः संयोगादसमवायिनश्चैतन्यमात्मगुणो भवतीत्यत्र पिठरपाकप्रक्रियया दृष्टान्तमाह -
अग्नीति ।
किं चात्मा ज्ञानान्तरप्रकाश्यः, वस्तुत्वात् , घटवदिति मत्वाह -
इति प्राप्तमिति ।
आत्मा न नित्यचैतन्यः, तद्व्यभिचारित्वात् , घटवदित्याह -
नित्येति ।
इष्टापत्तिं निराचष्टे -
ते पृष्टा इति ।
तदा तेषामसत्त्वादेव चैतन्यव्यभिचारित्वमित्याशङ्क्याह -
स्वस्थाश्चेति ।
तथापि कथं चैतन्यस्यागन्तुकत्वं, तत्राह -
चेतयमाना इति ।
आत्मा न ज्ञानस्वभावः, स्वसंसर्गिसर्वनवभासकत्वात् , आदित्यवदिति व्यतिरेकेणोपसंहरति -
अत इति ।
भाष्ये हेतुसाध्यनिरुक्त्या साध्याविशिष्टत्वं निरसनीयम् ।