आत्मनः स्वप्रकाशत्वश्रुतीनामनित्यधीत्वश्रुतीनां च विरोधे समन्वयासिद्धिरिति पक्षमनूद्य सिद्धान्तयति -
एवमिति ।
सूत्रं योजयति -
ज्ञ इति ।
अत एवेत्युक्तं व्यनक्ति -
यस्मादिति ।
उत्पत्त्यभावे हेतुमाह -
परमिति ।
तस्य कुतो जीवत्वं, तत्राह -
उपाधीति ।
येन ब्रह्माभिन्नत्वेनोत्पत्तिरात्मनो निरस्ता तेनैव तस्य नित्यचैतन्यताऽपि सुप्रतिपदा । विमतं चैतन्यस्वभावं, ब्रह्माभिन्नत्वात् , तद्वदित्यर्थः ।
दृष्टान्तस्य साध्यवैकल्यमुद्धरति -
परस्येति ।
हेत्वसिद्धिं प्रत्याह -
तदेवेति ।
चेच्छब्दो निश्चयार्थः । प्रकृतिविकारत्वहीनद्रव्यार्थपदसामानाधिकरण्यम् , एकद्रव्यनिष्ठम् , उक्तसामानाधिकरण्यत्वात् , सोऽयमितिवदित्यनुमानात्प्रवेशश्रुतेश्च ब्रह्मैव जीवो निश्चित इति हेतुसिद्धिरित्यर्थः ।
ब्रह्माभिन्नत्वफलं निगमयति -
तस्मादिति ।
न केवलं नित्यचैतन्यब्रह्मत्वाज्जीवस्य नित्यचैतन्यत्वं किन्तु स्वप्रकाशत्वश्रवणादपीत्याह -
विज्ञानेति ।
‘योऽयं विज्ञानमयः प्राणेषु’ इत्यारभ्य तत्प्रकरणस्थाः श्रुतीरात्मस्वप्रकाशत्वसाधनायोपन्यस्यन्नुक्तानुमानानां कालात्ययापदिष्टत्वमाह -
असुप्त इति ।
स्वयमसुप्तो भासमान एवात्मा सुप्तान्वागादीनुपरतव्यापारानभिपश्यतीति यावत् । अत्रेति स्वप्नोक्तिः । नच तत्र मनसो भावात्तन्निमित्तमात्मनो ज्योतिष्ट्वं तदा तस्य कर्मत्वादकरणत्वादिति भावः ।
व्यभिचारिकरणजन्यबुद्धीनामव्यभिचारिचैतन्यं विना नियतानुसन्धानासिद्धेरात्मनो नित्यचैतन्यत्वमित्याह -
अथेति ।
आत्मा नित्यचैतन्यस्वभावः, स्वसत्तायां तद्व्यतिरेकशून्यत्वात् , ईश्वरसंवेदनवदिति भावः ।
प्रतिकूलतर्कपराहतिं शङ्कते -
नित्येति ।
आत्मनो नित्यचैतन्यत्वेऽपि स्वतोऽसङ्गतया विषयासंसर्गात्तद्विशेषयोगद्वारा तत्परिच्छेदार्थमन्तःकरणाद्यपेक्षणान्न तद्वैयर्थ्यमित्याह -
नेति ।
न चासंसर्गित्वादेव विषयविशेषासंसर्गे कुतस्तद्भानं मिथोऽयोगेऽपि द्वयोरेकान्तःकरणसंसर्गाद्युक्तत्वेन भानसम्भवान्मुखरक्तिमगुणयोर्मिथोऽयोगेऽपि स्फटिकोपरागाधीनसम्बन्धवदिति भावः ।
गन्धादिविषयविशेषस्य परिच्छेदस्तदवच्छिन्नश्चित्प्रकाशस्तद्व्यञ्जकजडप्रकाशान्तःकरणपरिणामोदयार्थत्वाद्घ्राणादीनां नानर्थक्यमित्यत्र श्रौतं लिङ्गमाह -
तथाहीति ।
स्वसत्तायां तदव्यभिचारित्वादिति हेतोरसिद्धिं परिहर्तुं परोक्तं तद्व्यभिचारित्वहेतुमनुवदति -
यत्त्विति ।
स्वकीयहेतोरसिद्धिमुद्धरन्परकीयहेतोरागमविरोधमाह -
तस्येति ।
पश्यन्नित्येतदुपपादयति -
नहीति ।
न पश्यतीत्युक्तं व्यनक्ति -
न त्विति ।
पश्यन्न पश्यतीति विरोधमाशङ्क्याह -
एतदिति ।
विषयाभावादचेतयमानत्वं दृष्टान्तेन स्पष्टयति -
यथेति ।
वस्तुत्वादिहेतोरनित्यचैतन्यत्वसिद्धावात्मनश्चिद्रूपता कुतः स्यादित्याशङ्क्याह -
वैशेषिकादीति ।
आत्मचैतन्यस्यागन्तुकत्वे मानाभावात्तस्य नित्यचैतन्यत्वे पश्यन्नित्यादिश्रुतीनां स्वप्रकाशत्वश्रुत्यनुसारेण नयनादन्योन्यमविरोधान्नित्यचैतन्ये प्रत्यग्ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -
तस्मादिति ॥ १८ ॥