ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
स्वात्मना चोत्तरयोः ॥ २० ॥
उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेतउत्तरे तु गत्यागती नाचलतः सम्भवतःस्वात्मना हि तयोः सम्बन्धो भवति, गमेः कर्तृस्थक्रियात्वात्अमध्यमपरिमाणस्य गत्यागती अणुत्वे एव सम्भवतःसत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते हि अनपसृप्तस्य देहाद्गत्यागती स्याताम्देहप्रदेशानां उत्क्रान्तावपादानत्ववचनात्चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इति एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति’ (बृ. उ. ४ । ४ । १) शुक्रमादाय पुनरैति स्थानम्’ (बृ. उ. ४ । ३ । ११) इति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवतःतस्मादप्यस्याणुत्वसिद्धिः ॥ २० ॥

सूत्रं व्याचिख्यासुः स्वाम्यनिवृत्तिमात्रमुत्क्रमणमित्यङ्गीकरोति -

उत्क्रान्तिरिति ।

देहे स्वाम्यनिवृत्तौ हेतुमाह -

कर्मेति ।

तथापि गत्यागतिभ्यामणुत्वमात्मनः स्यादपरिच्छिन्नस्य सतस्तदयोगादित्याह -

उत्तरे त्विति ।

घटगमनागमनाम्यां नभसस्तद्भ्रान्तिवदुपाधेरात्मनोऽपि गत्यागतिभ्रान्तिः स्यादित्याशङ्क्य दृष्टान्ते दृष्टत्वात्तथात्वेऽपि कथमागमिकस्य तथात्वमित्याह -

स्वात्मनेति ।

पचतीत्यादौ पाकाद्यनाश्रयस्यापि कर्तृत्वोक्तिवदात्मनो गत्याद्यनाश्रयस्यापि तत्कर्तृत्वमुच्यतामित्याशङ्क्याह -

गमेरिति ।

श्रुतिप्रामाण्याद्गत्यागत्योर्जीवेनैव सम्बन्धे फलितमाह -

अमध्यमेति ।

जीवोऽणुः, अमध्यमपरिमाणत्वे सति गत्यागतिमत्त्वात् , परमाणुवदित्यर्थः ।

स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्युपेत्योक्तम् । सम्प्रति सूत्रोक्तोत्क्रान्तेस्तर्हि पूर्वोत्तरपक्षानुपयोगितेत्याशङ्क्याह -

सत्योश्चेति ।

तत्र हेतुः -

नहीति ।

इतश्च देहादपसर्पणमेवोत्क्रान्तिरित्याह -

देहेति ।

अपादानात्वं विश्लेषावधित्वम् । अन्येभ्यो वा मुखादिभ्यस्तं जीवमुत्क्रमन्तं प्राणोऽनूत्क्रमतीति शेषः ।

किञ्च स्वदेहमध्येऽपि गत्यागतिभावात्परिच्छिन्नो जीव इत्याह -

स इति ।

जीवश्चक्षुरादीन्द्रियाणि गृहीत्वा स्वापादौ हृदयं प्रविशति । शुक्रं ज्योतिष्मत्करणजातमादाय पुनर्जागरितमागच्छतीत्यर्थः ।

बाह्यादिवान्तरादपि गत्यादेरात्मनोऽणुत्वमित्याह -

तस्मादिति ॥ २० ॥